TBD.
आमन्त्रितं पूर्वम् अविद्यमानवद् भवति, तस्मिन् सति यत्कार्यं तन भवति, असति यत् तद् भवति। कानि पुनरविद्यमानवत्त्वे प्रयोजनानि। आमन्त्रिततिङ्निघातयुष्मदस्मदादेशाभावाः। देवदत्त, यज्ञदत्त इत्यत्र आमन्त्रितस्य पदात् परस्य इति निघातो न भवति। षष्टिकामन्त्रिताद्युदात्तत्वं भवति। देवदत्त पचसि इत्यत्र तिङ्ङन्तिङः 8-1-28 इति निघातो न भवति। देवदत्त तव ग्रामः स्वम्, देवदत्त मम ग्रामः स्वम् इत्येवम् आदिसु युष्मदस्मदादेशा न भवन्ति। पूजायामनन्तरप्रतिषेधः प्रयोजनम्। यावद् देवदत्त पचसि इत्यत्र अपि पूजायां नानन्तरम् इत्येव प्रतिषेधो भवति। जात्वपूर्वम् 8-1-47 तियेतत्, देवदत्त जातु पचसि इत्यत्र अपि भवति। आहो उताहो चानन्तरम् 8-1-49 इति, आहो देवदत्त पचसि, उताहो देवदत्त पचसि इत्यत्र अपि भवति। आम एकान्तरमामन्त्रितमनन्तिके 8-1-55 इति, आम् भो पचसि देवदत्त इत्यत्र अपि भवति। आमन्त्रितम् इति किम्? देवदत्तः पचति। पूर्वम् इति किम्? देवदत्त इत्येतस्य आमन्त्रिताद्युदात्तत्वे कर्तव्ये न अविद्यमानवद् भवति। पूर्वत्वम् च परापेक्षम् भवति इति परस्य एव कार्ये स्वनिमित्ते ऽन्यनिमित्ते वा तदविद्यमानवद् भवति, न तु स्वकार्ये। देवदत्त पचसि इत्यत्र अपि हि आमन्त्रिताद्युदात्तत्वं भवत्येव। इह इमं मे गङ्गे यमुने सरस्वति इति गङ्गेशब्दः पूर्वमानन्त्रितम्, ततः परस्य यमुनेशब्दस्य अनुदात्तत्वे कर्तव्ये स्वयम् अविद्यमानवत्त्वान् निमित्तं न भवति। मेशब्दस्य निमित्तभावं न प्रतिबध्नाति।
TBD.
–
आमन्त्रितं पूर्वम्। स्पष्टमिति। अनुवर्तनीयपदान्तराऽभावादिति भावः। `अग्ने तेवेति। `अग्ने तव श्रवो वयः' इत्यृचि `अग्ने' इत्यविद्यमानवत्। देवास्मानित्यत्र देवशब्दोऽविद्यमानवत्। `अग्ने नये'त्यृचि `अग्ने' इत्यविद्यमानवत्। `अग्न इन्द्र वरुणे'त्यृचि `अग्ने' इत्यविद्यमानवदिति भावः। ततः किमित्यत आह-इहेति। अग्ने तवेत्यत्र देवाऽस्मानित्यत्र च युष्मदस्मदोः ते-नसावादेशौ न भवतः, तव ?समानित्यनयोः पदात्परत्वाऽभावात्पादादौ स्थितत्वाच्चा। `अग्ने नये'त्यत्र `नये'ति तिङन्तस्य `तिङ्ङ्तिङः' इत्यनुदात्तत्वं न भवति अतिङन्तात्पदात्परं तिङन्तं निहन्यते इति हि तदर्थः। इह च `अग्ने' इत्यतिङन्तस्याऽविद्यमानवत्त्वादतिङन्तात्परत्वाऽभावान्नानुदात्तत्वम्। अग्न इन्द्र वरुणेत्यत्र तु `आमन्त्रितस्य चे'ति सर्वानुदात्तत्वं न भवति, पदात्परमामन्त्रितं निहन्यते इति हि तदर्थः। इह च अग्नेशब्दस्याऽविद्यमानवत्त्वेन पदात्परत्वाऽभावादिन्द्रशब्दस्य नानुदात्तत्वम्। एवं वरुणशब्दस्यापि नानुदात्तत्वं, ततः प्राचीनयोरग्ने इन्द्र इत्यनयोरविद्यमानत्वात्। ननु `सर्वदा रक्ष देव नः' इत्यत्र कथं नसादेशः, देवेत्यस्याऽविद्यमानबत्त्वादित्यत आह– सर्वदेति। `लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि'`प्रतापरूद्र!ते ख्याति'रित्यादौ तु `ते' इति विभक्ति प्रतिरूपकमव्ययं, तत्र आमन्त्रितस्याऽविद्यमानवत्त्वाद्युष्मच्छभ्दस्य पादादिस्थत्वात्। एवमिति। `इदं मे गङ्गे यमुने सरस्वति शुतुद्रिस्तोमँ परुष्णिया' इति मन्त्रे सर्वेषां निघात इत्यन्वयः। `आमन्त्रितस्य चे'त्यनुदात्तत्वमित्यर्थः। सर्वशब्दं विशिनष्टि–यमुने इत्यादिभ्यप्राचीनानामिति। इति आदिर्येशामिति विग्रहः। आदिना सरस्वतिशुतुद्रीत्यनयोग्र्रहणम्। तद्गुणसंविज्ञानो बहुव्रीहिः। `यमुने' `सरस्वति' `शुतुद्रि' इत्येतेषु एकैकस्मात्प्राचीनानां `गङ्गे' `यमुने' `सरस्वति' इत्येषां सर्वेषां निघात इत्यर्थः। शुतुद्रिशब्दस्य त्वनुदात्तत्वं नेत्यविवादं, तस्य द्वितीयपादादिस्थत्वात्। `आमन्त्रितस्य चे'त्यत्र `पदस्य, `पदात्', `अनुदात्तं सर्वमपादादौ' इत्यनुवृत्तेः' `इमं मे' इत्यृचो जगतीच्छन्दस्कतया सरस्वतीत्यन्तप्रथमपादस्य द्वादशाक्षरस्य समाप्ते। ननु `गङ्गे' इत्यस्यानुदात्तत्वमुचितं, तस्य मे इति पदात्परत्वात्, यमुने, सरस्वति इत्यनयोस्तु नानुदात्तत्वसंभवः, ततः प्राचीनयोर्गङ्गे यमुन#ए इत्यनयोरविद्यमानवत्त्वे पदात्परत्वाऽभावादित्यत आह–आमन्त्रि[नाम]विद्यमानवद्भावेऽपि मेशब्दमेवाश्रित्येति। आमन्त्रितानां मध्ये गङ्गे यमुने इत्यनयोरविद्यमानवद्भावेऽपीति योजनीयम्। एवंच `इत्यादिभ्य' इति `सर्वेषा'मिति च बहुवचनमनुपपन्नमित्यपास्तम्। क्वचित् पुस्तकेषु `यमुने इत्यादिप्राचीनाऽऽमन्त्रिताऽविद्यमानवद्भावेऽपी'ति पाठो दृश्यते। तत्र आदिना सरस्वतीत्येतदुच्यते। यमुने सरस्वतीत्याभ्यचां प्राचीनयोरामन्त्रितयोरविद्यमानवद्भावेऽपीति सुगममेव। अयं च निघातः पदकाले स्पष्टं श्रूयते।
363 इहेति। `अग्ने तव' `देवास्मा'नित्यत्रयुष्मदस्मदोर्न भवत्यादेशः, `अग्ने नये'त्यत्र `तिड्डतिङः'इति न तिङन्तनिघातः, `अग्न इन्द्र वरुणे'त्यत्र तु `आमन्त्रितस्य चे'त्यमान्त्रितनिघातो नेति विवेकः। सर्वेषां निघात इति। अयं च निघातः पदकाले श्रीयते न तु संहिताकाले। `स्वरितात्संहितायामनुदात्ताना'मिति संहितायामेकश्रुतिविधानात्?।
TBD.