Table of Contents

<<8-1-72 —- 8-1-74>>

8-1-73 न आमन्त्रिते समानाधिकरणे सामान्यवचनम्

प्रथमावृत्तिः

TBD.

काशिका

अविद्यमानवत्त्वस्य प्रतिषेधः आमन्त्रितान्ते समानाधिकरने परतः पूर्वम् आमन्त्रितान्तं सामान्यवचनम् न अविद्यमानवद् भवति। किं तर्हि? विद्यमानवदेव। अग्ने गृहपते। माणवक जटिलकाध्यापक। पूर्वस्य विद्यमानवत्त्वात् परमनुदात्तम् एव भवति। आमन्त्रिते इति किम्? देवदत्त पचसि। समानाधिकरने इति किम्? देवदत्त पण्डित यज्ञदत्त। अत्र यज्ञदत्तविशेषनम् पण्डितशब्दः, न पूर्वेण समानाधिकरनः। सामान्यवचनम् इति किम्? पर्यायेषु मा भूत्, अध्न्ये, देवि, सरस्वति, ईडे, काव्ये, विहव्ये। पर्यायशब्दा एते। एवं हि उक्तम्, एता ते अघ्न्ये नामानि इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

नामन्त्रिते। आमन्त्रितम् अविद्यमानवदित्यनुवर्तते।`सामान्यवचन'मित्यनेन विशेष्यसमर्पकः शब्दो विवक्षितः। विशेष्यस्य विशेषणापेक्षया सामान्यरूपत्वात्। तेन च विशेषणमाक्षिप्यते। समानाधिकरणे इति तत्रान्वेति। समानम् अधिकरणं यस्येति विग्रहः। समानशब्द एकत्वपरः। विशेष्यबोधकशब्देन अभेदसंसर्गेण एकार्थवृत्तित्वं विवक्षितमित्याशयेनाह-विशेष्यमित्यादिना। हरे दयालो इति। अत्र `दयालो' इति समानाधिकरणविशेषणे परे हरिशब्दो नाऽविद्यमानवत्। ततश्च `दयालो' इत्यस्याऽविद्यमानवत्त्वेऽपि `हरे' इति पदात्परत्वान्नसादेश इति भावः। अग्ने तेजस्विन्निति। इह ` तेजस्वि'न्निति विशेषणे परे `अग्ने' इत्यस्य अविद्यमानवत्त्वाऽभावात्पदात्परत्वात्तेजस्विन्नित्यस्य निघात इति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.