TBD.
युष्मदस्मदित्येतयोः षष्ठीचतुर्थीद्वितीयास्थयोः यथासङ्ख्यं वाम् नौ इत्येतावादेशौ भवतः, तौ चानुदात्तौ। पदस्य, पदात्, अनुदात्तं सर्वमपादादौ इति सर्वम् इह सम्बध्यते। ग्रामो वां स्वम्। जनपदो नौ स्वम्। ग्रामो वां दीयते। जनपदो नौ दीयते। ग्रामो वां पश्यति। जनपदो नौ पश्यति। एकवचनबहुवचनान्तयोरादेशान्तरविधानाद् द्विवचनान्तयोः एतावादेशौ विज्ञायेते। षष्ठीचतुर्थीद्वितीयास्थयोः इति किम्? ग्रामे युवाभ्यां कृतम्। स्थग्रहणं श्रूयमाणविभक्त्यर्थम्। इह मा भूत्, अयं युष्मत्पुत्रः अयम् अस्मत्पुत्रः इति।
TBD.
331 आभ्यां परस्य साम आकं स्यात्. युष्माकम्. अस्माकम्. त्वयि. मयि. युवयोः. आवयोः. युष्मासु. अस्मासु..युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वांनावौ.. पदात्परयोरपादादौ स्थितयोः षष्ठ्यादिविशिष्टयोर्वां नौ इत्यादेशौ स्तः..
–
357 षष्ठीचतुर्थीदि। `अल्पाच्तर'मिति `षष्ठी'त्यस्य पूर्वनिपातः। षष्ठ\उfffदादिविशिष्ययोरिति। ननु युष्मदस्मदोरित्युक्तत्वात्तयोरेव उक्तरूत्या वस्नसादौ दोषाऽभावेऽपि भ्यामादौ परतो युष्मदस्मदोः पदत्वात्केवलयोर्वानावादेशप्रसङ्गस्य दुर्वारत्वात्। तथा च `सुखं वां नौ ददात्वीशः'इति प्रयो#ओ न सह्गच्छेत। नापि `द्वितीयास्थयो'रिति स्थग्रङणसामथ्र्याद्विभक्तिविशिष्योरेव आदेशा भवेयुरिति वाच्यम्, `स्थग्रहणाच्छ\उfffद्यमाणविभक्तिकयोरेवे'ति वक्ष्यमाणतया तत्सामथ्र्यस्योपक्षयात्। मैवम्, `अनुदात्तं सर्व'मिति सर्वग्रहणाधिकारात्सर्वस्यैव विभक्तिविशिष्टस्य आदेशा भवन्तीति आकरे स्पष्टत्वात्। यदि तु सर्वस्य द्वे'इत्यतः `सर्वस्ये ति पदमनुवर्तते, तदा सर्वग्रहणमिह त्यक्तुं शक्यमित्याहुः।
The प्रातिपदिके “युष्मद्” and “अस्मद्” along with an affix of the second, fourth or sixth case, get “वाम्” and “नौ” as replacements respectively when the following conditions are satisfied:
1. There is a पदम् in the same sentence preceding “युष्मद्”/”अस्मद्”।
2. “युष्मद्”/”अस्मद्” is not at the beginning of a metrical पाद:।
उदाहरणे -
ईश्वरो वां (युवाम्) पश्यति। ईश्वरो नौ (आवाम्) पश्यति।