Table of Contents

<<7-4-97 —- 8-1-2>>

8-1-1 सर्वस्य द्वे

प्रथमावृत्तिः

TBD.

काशिका

सर्वस्य इति च द्वे इति च एतदधिकृतं वेदितव्यम्। इत उत्तरं यद् वक्ष्यामः पदस्य 8-1-16 इत्यतः प्राक्, सर्वस्य द्वे भवतः इत्येवं तद् वेदितव्यम्। वक्ष्यति नित्यवीप्सयोः 8-1-4 इति, तत्र सर्वस्य स्थाने द्वे भवतः। के द्वे भवतः? ये शब्दतश्च अर्थतश्च उभयथान्तरतमे। एकस्य पचतिशब्दस्य द्वौ पचतिशब्दौ हवतः। पचति पचति। ग्रामो ग्रामो रमणीयः। यदा तु द्विः प्रयोगो द्विर्वचनम् तदा स एव पचतिशब्दो द्विरावर्तते, तस्य द्वे आवृत्ती भवतः। सर्वस्य इति किम्? विस्पष्टार्थम्। अथ पदस्य इत्येव कस्मान् न उच्यते? न एवं शक्यम्, इह हि न स्यात् प्रपचति प्रपचति इति। इह द्रोग्धा, द्रोढा इति घत्वढत्वयोः असिद्धत्वादकृतयोरेव तयोर् द्विवचनं प्राप्नोति, तत्र पश्चाद् विकल्पे सत्यनिष्तम् अपि स्यात् द्रोग्धा द्रोढा, द्रोढा द्रोग्धा इति। तस्माद् वक्तव्यम् एतत् पूर्वत्र असिद्धीयम् अद्विर्वचने इति। सर्वस्य इत्येतदेव वा कृतं सर्वकार्यप्रतिपत्त्यर्थं द्रष्टव्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

अथ द्विरुक्तप्रकरणम्। सर्वस्य द्वे। इत्यधिकृत्येति। `द्विर्वचनवधयोऽनुक्रंस्यन्ते' इति शेषः।

तत्त्वबोधिनी

1589 सर्वस्य द्वे। सर्वशब्दस्य द्वे भवत इति विधिरत्र न शङ्क्यः, किं तु `नित्यवीप्सायो'रित्येवमादीनां विधेयकार्यिणोरनिर्देशेन साकाङ्क्षत्वात्स्वरितत्वाच्चाधिकारोऽयं, तदाह—-इत्यधिकृत्येति। एतदर्थरूपमधिकृत्येत्यर्थः। स्वरूपग्रहणं तु न भवति, `नाम्रेडितस्यान्त्यस्य तु वे'ति लिङ्गात्। स्वरूपग्रहणे हि सति द्विरुक्तसर्वशब्दस्यैव परमाम्रेडितं स्यान्न तु द्विरुक्तस्याऽव्यक्तानुकरणशब्दस्य परमिति `नाम्रेडितस्ये'ति पररूपनिषेधोऽन्त्यस्य तकारस्य विकल्पविधिश्च कथं सङ्गच्छेत?। ननु `नित्यवीप्सयो'रित्यादौ `पदस्ये'ति वक्ष्यमाणमपकृष्य पदस्यैव द्वित्वं विधीयते इति किमनेन सर्वस्येति ग्रहणेनेति चेत्। अत्राहुः–`स्वादिषु 'इति पदसंज्ञामादाय `वृक्षाभ्या'मित्यादौ प्रकृतिभागमात्रस्य द्विर्वचनं स्यात्। कृते तु `सर्वस्ये'ति ग्रहणे `सर्वशब्दोऽवयवकार्त्स्न्त्ये वर्तते'इति `सर्वावयवोपेतस्य द्वित्वं न तु कस्चिदवयो वज्र्यते'इत्यर्थलाभादिष्टसिद्धिरिति। इह `द्वे'इत्यस्य सङ्ख्येयापेक्षायां शब्दरूपे गृह्रेते, शब्दानुशासनप्रस्तावात्। `सर्वस्ये'ति स्थानषष्ठी। सोऽयं स्थाने द्विर्वचनपक्षः। यदि तु उच्चारणे सङ्ख्येये, तदा स्थान्यादेशभावो न सम्भवति, निवृत्तिधर्मा हि स्थानं, भवति, सर्वं चेन्निवृत्तं कस्योच्चारणं स्यात्, अतः `सर्वस्ये'त्यद्याह्मतोच्चारण शब्दापेक्षया `कर्तृकर्मणोः कृती'ति कर्मणि षष्ठी। `सर्वं द्विरुच्चारये'दिति फलितोऽर्थः। सोऽयं `द्विःप्रयोगो द्विर्वचन'मिति पक्षः। ननु आद्यपक्षे स्थानिवद्भावेन समुदायस्यैव पद्त्वं स्यान्न त्ववयवयोः, ततश्च पदकार्याणि न स्युः। न चेष्टापत्तिः। `अपचन्नपच'न्नित्यत्र ङमुट्, `वृक्षान् वृक्षा'न्नित्यत्र `पदान्तस्ये'ति णत्वनिषेधः, `अग्रेऽग्रे'इत्यत्र `एङः पदान्ता'दिति पूर्वरूपत्वं च न सिध्येत्। किं चाऽपदान्तत्वप्रयुक्तकार्याणि स्युः। तद्यथा `पयःपयः'इत्यत्र `सोऽपदादौ'इति सत्वं स्यात्, `पपीःपपीः' इत्यत्र `इणः षः'इति षत्वं स्यात्। `पाशकल्पककाम्येषु'इति वृत्तिग्रन्थमवष्टह्र कथञ्चित्सत्वषत्वपरिहारेऽपि `अशीताश्नीते'त्यत्र `अतो गुणे'इति पररूपं स्यादिति चेत्। अत्राहुः—यदि प्रत्यस्तमितावयवभेदः समुदाय एव एवादेशः स्यात्, `द्वे' इति द्विवचनमनुपपन्नं स्यात्, अतो `द्वे'इति वचनादेकस्य पदस्य स्थाने द्वे पदे समुदिते युगपदादेशत्वेन विधीयते, तत्र स्थानिवद्भावेन समुदायस्य पदत्वं, स्त एव चावयवयोरपीति न कश्चिद्दोष इति। स्यादेतत्—द्विःप्रयोगपक्षे प्रत्येकं पदसंज्ञायां सिद्धायामपि समुदायस्य सा न सिध्यति। ततश्च `देवदत्तः पचतिपचती'त्यादौ `तिङ्ङतिङः'इति सर्वस्य पदस्य निघातो न सिध्यतीति चेत्। अत्राहुः—`पचतिपचती'त्यादौ हि स एव धातुः प्रत्ययश्चाऽत्र द्विः पठ\उfffद्ते। ततश्च [यो] यस्मात्प्रत्ययो विहितस्तदादितदन्तमिति विधीयमाना पदसंज्ञा समुदायस्यापि प्रवर्तते। तेनाऽवग्रहादिः सिध्यतीति।

Satishji's सूत्र-सूचिः

TBD.