Table of Contents

<<8-1-1 —- 8-1-3>>

8-1-2 तस्य परम् आम्रेडितम्

प्रथमावृत्तिः

TBD.

काशिका

तस्य द्विरुक्तस्य यत् परं शब्दरूपं तदाम्रेडितसंज्ञं भवति। चौर चौर 3, वृषल वृषल 3, दस्यो दस्यो 3 घातयिष्यामि त्वा, बन्धयिष्यामि त्वा। आम्रेडितप्रदेशाः आम्रेडितं भर्त्सने 8-2-95 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

99 द्विरुक्तस्य परमाम्रेडितम् स्यात्..

बालमनोरमा

83 अभियुक्ताश्चाहुः–`क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव। शिष्टप्रयोगाननुसृत्य लोके विज्ञेयमेतद्बहुलग्रहे तु।' इति। ननु किमाम्रेडितं नाम ?, तत्राह–तस्य परमाम्रेडितम्। `सर्वस्य द्वे' इत्यनन्तरमिदं सूत्रं पठ\उfffद्ते। ततश्च `तस्ये'त्यनेन द्विरुक्तस्येति लभ्यते। अवयववाचिपरशब्दयोगे अत एव ज्ञापकात्षष्ठी। तदाह–द्विरुक्तस्येत्यादिना। पटत्पटेतीति। पटत् पटत् इति इति स्थिते तकारस्येकारस्य च पररूपमिकारः। ततश्च आद्गुणः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.