TBD.
नित्ये चार्थे विप्सायां च यद् वर्तते तस्य द्वे भवतः। केषु नित्यता? तिङ्क्षु नित्यता अव्ययकृत्सु च। कुत एतत्। आभीक्ष्ण्यम् इह नित्यता। आभीक्ष्ण्यं च क्रियाधर्मः। यां क्रियां कर्ता प्राधान्येन अनुपरमन् करोति तन् नित्यम्। पचति पचति। जल्पति जल्पति। भुक्त्वा भुक्त्वा व्रजति। भोजं भोजं व्रजति। लुनीहि लुनीहि इत्येवायं लुनाति क्त्वाणमुलोर्लोटश्च द्विर्वचनापेक्षायाम् एव पौनःपुन्यप्रकाशने शक्तिः। यङ् तु तन्निरपेक्षः प्रकाशयति, पुनः पुनः पचति पापच्यते इति। यदा तु तत्र द्विर्वचनम् तदा क्रियासमभिहारे पौनःपुन्यं द्रष्टव्यम् पापच्यते पापच्यते इति। अथ केषु वीप्सा? सुप्सु वीप्सा। का पुनर् वीप्सा? व्याप्तिविशेषविषया प्रयोक्तुरिच्छा वीप्सा। का पुनः सा? नानावाचिनाम् अधिकरणानां क्रियागुणाभ्यां युगपत् प्रयोक्तुर्व्याप्तुम् इच्छा वीप्सा। नानाभूतार्थवाचिनां शब्दानां यान्यधिकरणानि वाच्यानि तेषां क्रियागुणाभ्यां युगपत् प्रयोक्तुम् इच्छा वीप्सा। ग्रामो ग्रामो रमणीयः। जनपदो जनपदो रमणीयः। पुरुषः पुरुषो निधनम् उपैति। यत् तिडन्तं नित्यतया प्रकर्षेण च युक्तं ततः कृतद्विर्वचनात् प्रकर्षप्रत्यय इष्यते पचति पचतितराम् इति। इह तु आढ्यतरमाढ्यतरमानय इति प्रकर्षयुक्तस्य वीप्सायोग इष्यते।
TBD.
889 आभीक्ष्ण्ये वीप्सायां च द्योत्ये पदस्य द्वित्वं स्यात्. आभीक्ष्ण्यं तिङन्तेष्वव्ययसंज्ञकेषु च कृदन्तेषु च. स्मारंस्मारं नमति शिवम्. स्मृत्वास्मृत्वा. पायम्पायम्. भोजम्भोजम्. श्रावंश्रावम्..
नित्यवीप्सयोः। नित्यशब्देन नित्यत्वं विवक्षितम्। तश्च आभीण्यमिति भाष्यम्। व्याप्तुमिच्छा वीप्सा=व्याप्तिप्रतिपादनेच्छा। सा च प्रयोक्तृधर्मः। व्याप्तिरेव तु शाब्दबोधविषय इति भाष्यस्वरसः। तथा च `नित्यव्याप्त्या'रित्येव सुवचनम्। व्याप्तिश्च कात्स्र्यन्येन संबन्धः, उपसर्गबलात्। पदस्येत्यधिकरिष्यमाणमिहापकृष्यते। `सर्वस्ये'ति स्थानषष्ठी। `द्वे' इति त्वादेशसमर्पकम्। तस्य च `शब्दरूपे' इति विशेष्यमर्थाल्लभ्यते, शब्दानुशासनप्रस्तावात्। ते च शब्दरूपे स्वरूपतोऽतश्चान्तरतमे पदे इति स्थानेऽन्तरतमपरिभाषया लभ्यते। ततश्च पौनःपुन्ये कार्त्स्न्ये च गम्ये कृत्स्नावयवविशिष्टस्य पदस्याऽर्थतश्च शब्दतश्चान्तरतमे द्वे पदे भवत इति फलितम्। तदभिप्रेत्याह–आभीक्ष्ण्ये वीप्साया च द्योत्ये इति। द्योत्यं च द्योत्या च द्योत्यम्। तस्मिन्नित्यर्थः। `नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्या'मिति नपुंसकैकशेषः। एकत्वं च नित्यवीप्से च प्रकृतिगम्ये। द्विर्वचनं तु द्योतकम्। सत्यपि प्रकृतेर्द्वित्वे द्विरुक्तयोः प्रकृत्यनतिरेकादिति बोध्यम्। द्विर्वचनं स्यादिति। द्वे पदे आदेशौ स्त इत्यर्थः। तत्रावयवयोः पदत्वं स्वतः सिद्धम्। समुदायस्य तु पदद्वयात्मकस्य स्थानिवत्त्वात्सुबन्तत्वम्। तेन `अपचन्नपचन्नि'त्यत्र ङमुट्, `वृक्षान्वृक्षा'नित्यत्र `पदान्तस्ये'ति णत्वनिषेधः, `अग्रेऽग्रे' इत्यत्र `एङः पदान्ता'दिति पूर्वरूपं चेत्यादीन्यवयवानां पदकार्याणि सिध्यन्ति। `पुनःपुन'रिति समुदायस्य स्थानिवत्त्वेन सुबन्तत्वाद्भावे ष्यञि, भवे ठञि च पौनः पुन्यम्, पौनःपुनिक इति च सिध्यति। `द्वे उच्चारणे स्त' इत्याश्रयणे तु सर्वं पदं द्विरुच्चारयेदित्यर्थः फलितः स्यात्। ततश्च पुनरित्येकस्यैव द्विरुच्चार्यमाणस्य पुनःपुनरित्यादेशत्वाऽभावेन स्थानिवत्त्वाऽप्रसक्त्या सुबन्तत्वविरहात्तद्दितोत्पत्तिर्न स्यात्। तस्मादादेशपक्ष एव श्रेयानित्यास्तां तावत्। आभीक्ष्ण्यं तिङन्तेष्विति। आक्षीक्ष्ण्यं-पौनः पुन्यम्। तच्चैह प्रधानभूतक्रियाया एव। क्रियाप्राधान्यं चाख्यातेष्वस्तीति `प्रशंसायां रूप'विति सूत्रे भाष्ये स्पष्टम्। अव्ययकृत्स्वपि क्त्त्वातुमुन्नादिषु क्रियाप्राधान्यम्, `अव्ययकृतो भावे' इत्युक्तेः तथा च तिङन्तेष्वव्ययसंज्ञककृदन्तेषु च पौनःपुन्यनिमित्तकद्विर्वचनं नान्यत्रेत्यर्थः। तथैवोदाहरति–पचति पचति भुक्त्वा भुक्त्वेति। कृत्स्नं वृक्षमित्यर्थः। अत्र प्रकृततद्वाटिकागतवृक्षकार्त्स्न्यंगम्यते, जगतीतलस्थितकृत्स्नवृक्षसेचनस्याऽशक्यत्वात्। सर्वशब्दस्य कार्त्स्न्यवाचित्वेऽपि न द्वित्वमित्यनुपदमेव `यथास्वे' इत्यत्र वक्ष्यते। वृक्षं-वृक्षमित्यत्र कार्त्स्न्यावगमेऽपि प्रत्येकनिषठमेकत्वमेव भासते, नतु बहुत्वम्, अतो न बहुवचनम्, `एकैकस्य प्राचा'मिति लिङ्गाच्च। `सर्वस्ये'त्यभावे वृक्षाभ्यामित्यादौ `स्वादिषु' इति पदत्वमवलम्ब्य प्रकृतिभागमात्रस्य द्विर्वचनं स्यात्। कृते तु सर्वग्रहणे पदावयवत्वानाक्रान्तस्यैव कृत्स्नावयवोपेतस्य पदस्य द्वित्वमित्यर्थलाभान्न दोषः। पदस्येति किम् ?। वाक्यस्य मा भूत्।
1590 नित्यवीप्सयोः। नित्यमिह पौनःपुन्यमित्याह—आभीक्ष्ण्य इति। द्योत्य इति। `नपुंसकमनुपुंसकेने'त्येकशेषः, एकवद्भावश्च बोध्यः पदस्येति। तेन नित्यतायां विधीयमानं द्विर्वचनं धातुमात्रस्य न भवति। किं च क्रियासमभिहारे धातोर्विहितो यङन्तरङ्गः, पदस्योच्यमानं द्विर्वचनं तु बहिरङ्गमिति यङं न बाधते। अन्यथा हि पौनःपुन्यं भृशार्थश्च क्रियासमभिहार इति भृसार्थे सावकाशो[ऽयं]यङ् पौनःपुन्ये परेण द्विर्वचनेन बाध्येत। न च पदस्य द्विर्वचनाभ्युपगमे सगतिकस्य प्रपचति प्रपठतीत्यादेर्द्विर्वचनं न स्यादिति वाच्यं, वार्तिककारवचनात्तत्सिद्धेः। अत्र वदन्ति सगतिकस्य द्वित्वे ऐकपद्यं नास्त्येव, स्थानिनः पदत्वाऽभावेन आदेशेऽपि तस्य दौर्लभ्यात्। द्विःप्रयोगपक्षे तु प्रथमगतिं विहायाऽवशिष्टस्य पदत्वं प्राप्तं, तस्मिन् सत्यपि न क्षतिः। वस्तुतस्त्विह स्थाने द्विर्वचनपक्ष एव मुख्यः। स्थानिनः सुबन्तत्वेनादेशस्यापबि सुबन्तत्वात्सुबन्तात्तद्धित इति पक्षे समुदायात् ष्यज्?ठञोः संभवेन पौनःपुन्यं पोनःपुनिक इति रूपसिद्धेः। `प्रातिपदिकात्तद्धितः'इति पक्षाभ्युपगमेऽपि श्रूयमाणप्रत्ययान्तस्यैव प्रातिपदिकत्वनिषेधात्पुनरित्यस्य[एव] प्रातिपदिकत्वे[न] आदेशस्यापि प्रातिपदिकत्वात्पौनः पुन्यमित्यादि सिध्यत्येव। द्विःप्रयोगपक्षे त्वन्तरङ्गत्वादव्ययात्सुपो लुकि द्वित्वं प्रवर्तत इति समुदायस्य सुबन्तत्वाऽभावात् प्रातेपदिकत्वाऽभावाच्च ष्यञ्ञञौ नच भवतः। न च `अर्थवदधातु'रित्यादिना समुदायस्य प्रातिपदिकत्वेवे सोरुत्पत्तौ तस्य लुकि च सुबन्तत्वं प्रातिपदिकत्वं च संभवत्येवेति वाच्यम्। `यत्र सङ्घाते पूर्वो भागः पदं तस्य चेद्भवति समासस्यैवे'ति नियमेन प्रातिपदिकत्वस्याऽसंभवेन सुबन्तत्वस्याप्यसंभवात्। न च द्विःप्रयोगपक्षे स एव धातुः प्रत्ययश्च द्विःपठ\उfffद्त इति समुदायस्यापि पदसंज्ञा प्रवर्तते इत्यधुनैवोक्तत्वात्पुनःपुनरिति समुदायस्य सुबन्तत्वमस्त्येवेति शङ्क्यम्, अन्तरङ्गत्वात्सोर्लुकि प्रकृतिभागस्य द्विर्वचने सति यस्मात्प्रत्ययो विहितस्तदादि तदन्तमिति विधीयमानायाः पदसंज्ञायाः समुदायस्य दुर्लभत्वात्। ततश्चैकपद्याऽभावे `पुनःपुनर्जायमाना पुराणी' इत्यादाववग्रहोऽपि न सिध्येदिति। आभीक्ष्ण्यमिति। तद्धि क्रियानिष्ठधर्मः। तेन तद्द्योतनार्थं द्वित्वं क्रियाप्राधानानामेव न्याय्यम्। क्रियाप्राधान्यं चाख्यातेऽस्ति, कृद्वि शेषे च `अव्ययकृतो भ#आवे'इति वक्ष्यमाणत्वादिति भावः। केचित्तु क्रियाप्रधानानामेव द्वित्वे परिगृहीतसाधनाया एव क्रियायाः व्यवहारोपयोगित्वात्तदनभिधानाच्च धातुमात्रस्य द्वित्वं न भवति, किंतु तादृश क्रियाभिधायिनः पदस्यैव स्यादिति पदस्येत्यस्यापकर्षणाऽभावेऽपि न क्षतिरित्याहुः। तच्चिन्त्यम्। उक्तरीत्या नानाकारकविशिष्टक्रियासमर्थकस्य वाक्यस्यैव द्वित्वापत्तेः। किं च भावार्थकलकारान्तानामव्ययकृतां च भवदुक्तरीत्या द्वित्वं न स्यात्। ननु तत्र नित्यतावगत्यन्तरं पदान्तरैः साधनाकाङ्क्षा परिपूर्यत इति भूयते पक्त्वेत्यादिपदानां द्वित्वं स्यादेवेति चेत्। तर्हि तत्रैव धातुमात्रस्य द्वित्वं केन वार्यताम्। किं च तद्वदेव कर्तृकर्मलकारस्थलेऽपि धातिमात्रस्य द्वित्वं दुर्वारमिति पदस्येत्यपकर्षणमावश्यकमेवेति दिक्। वीप्सायामिति। व्याप्तुमिच्छा वीप्सा। व्याप्तिप्रतिपिपादयिषेति यावत्। सा च प्रयोक्तृधर्मः आबाधवत्। `गतगत'इत्युक्ते प्रियस्य चिरगमनादिना पीडितो वाक्यं प्रयुङ्क्ते इति यथा प्रतीयते तथा वृक्षंवृक्षं सिञ्चितीत्यादावपि व्या\उfffद्प्त बुबोधयिषोरिदं वाक्यमित्यवगमात्। शाब्दबोधविषयस्तु व्याप्तिरेव। तथाच `नित्यव्याप्त्यो'रित्येव सूत्रयितुं शक्यम्। व्याप्तिरिह कार्त्स्न्यं, तच्चाधिकारिकम्। `सर्वे ब्राआहृणा आमन्त्रिताः 'इत्यादौ यथा। `न हि जगतीतले विद्यमाना ब्राआहृणाः सर्वेऽपि केनतिदामन्त्रयितुं शक्यन्ते'इति स्वग्रामस्थस्वजातीयब्राआहृणपरतया तत्र सङ्कोचो यद्यप्यभ्युपेयते तह्र्रत्राऽपि सकलवृक्षसेचनसामथ्र्यं कस्यापि मनुष्यस्य नास्तीति यत्र वाटिकादौ वृक्षसेचनार्थमधिकारस्तद्वाटिकास्थवृक्षाणामेव कार्त्स्न्यं `वृक्षंवृक्षं'सिञ्चती'त्यादौ गम्यते इत्यभ्युपेयम्। यत्र तु सङ्कोचे कारणं नास्ति, तत्राऽसंकोच इष्ट एव, `जातोजातो निधनमुपैती'ति यथा। न चैवं वृक्षंवृक्षमित्यादौ बहुवचनप्रसङ्गः। बहूनां भानेऽपि बहुत्वसंख्यायास्तत्राऽभानात्। प्रत्येकनिष्ठमेकत्वमेव हि तत्र भासते इत्यादि मनोरमायां स्थितम्। `वृक्षंवृक्ष'मिति समुदायस्य तु प्रातिपदिकत्वाभावाद्बहुवचनस्य प्रसङ्ग एव नास्ति। न च `अर्थवदधातु'रित्यनेन प्रातिपदिकत्वं शङ्क्यम्। `यत्र सङ्घाते पूर्वो भागः पदं तस्य चेद्भवति [तर्हि] समासस्यैवे'ति नियमात्। न चाष्टमिकं द्विर्वचनमादेशरूपमिति सङ्घातो न भवतीत्यपि शङ्क्यम्, `द्वे' इति वचनादेकस्य पदस्य स्थाने द्वे पदे समुदिते युगपदादेशत्वेन विधीयेते इति प्रागुक्तत्वात्। नन्वेवमपि `सरित्सरित्'`योषायोषे'त्यादौ बहुवचनोत्पत्तिर्दुर्वारैव। `सरि'दिति स्थानिनः प्रातिपदिकत्वसंभवने तदादेशस्यापि सरित्सरिदित्यादेः स्थानिवद्भावेन प्रातिपदिकत्संभवादिति चेत्। अत्राहुः—- अन्तरङ्गैकसङ्ख्यावरुद्धो। द्विरुक्तार्थः सङ्ख्यान्तरे निराकाङ्क्ष एव। न हि वस्तुगत्या बहुत्वमस्तीत्येतावतैव तस्य शाब्दबोध आपादयितुं शक्यते। असत्त्वार्थकेष्वपि तदापत्तेः। न हि शयनबाहुल्याभिप्रायेण [`देवदत्तेन]शय्यन्ते'इति भावे कश्चित्प्रयुङ्क्ते। तत्राऽयोग्यं तदिति चेत्। समं प्रकृतेऽपि। अत्र च लिङ्गम् `एकैकस्य प्राचा'मिति निर्देश इति।
वृत्तिः आभीक्ष्ण्ये वीप्सायां च द्योत्ये पदस्य द्वित्वं स्यात् । To express repetition of action or pervasion of a thing by a property or action, a पदम् (ref. 1-4-14) is duplicated.
Note: आभीक्ष्ण्यं तिङन्तेष्वव्ययसंज्ञककृदन्तेषु च । आभीक्ष्ण्यम् (repetition of action) can only apply to words ending in तिङ् affixes as well as words ending in कृत् affixes having the designation अव्ययम्।
उदाहरणम् (आभीक्ष्ण्यम् – तिङन्तेषु) – जल्पति जल्पति Someone prattles repeatedly.
उदाहरणम् (आभीक्ष्ण्यम् – अव्ययसंज्ञककृदन्तेषु) -
Examples continued from 3-4-22
Since repetition of action is to be expressed, the पदम् ‘भूत्वा’ is duplicated -
भूत्वा भूत्वा प्रलीयते 8-1-4
णमुँल्-पक्षे In the case where the affix ‘णमुँल्’ is used -
भावम् भावम् प्रलीयते 8-1-4
= भावं भावं प्रलीयते 8-3-23
Note: The affix ‘णमुँल्’ or ‘क्त्वा’ is capable of expressing repetition of action only after duplication (by 8-1-4).
Note: व्याप्तुमिच्छा = वीप्सा (ref. 7-4-55 आप्ज्ञप्यृधामीत्, 7-4-58 अत्र लोपोऽभ्यासस्य)। सुप्सु वीप्सा । वीप्सा (pervasion of a thing by a property or action) can only apply to words ending in सुँप् affixes.
उदाहरणम् (वीप्सा) -
ग्रामो ग्रामो रमणीय: Village after village (= every village) is delightful.
वृक्षं वृक्षं सिञ्चति (Someone) waters tree after tree (= every tree.)