Table of Contents

<<7-4-84 —- 7-4-86>>

7-4-85 नुगतो ऽनुनासिकान्तस्य

प्रथमावृत्तिः

TBD.

काशिका

अनुनासिकान्तस्य अङ्गस्य यो ऽभ्यासः तस्य अकारान्तस्य नुगागमो भवति यङ्यङ्लुकोः परतः। तन्तन्यते। तन्तनीति। जङ्गम्यते। जङ्गमीति। यंयम्यते। यंयमीति। रंरम्यते। रंरमीति। नुकित्येतदनुस्वारोपलक्षणार्थं द्रष्टव्यम्। स्थानिना हि आदेशो लक्ष्यते। तेन यंयम्यते इत्येवम् आदौ अझल्परत्वे ऽपि अनुस्वारो भवति। पदान्तवच्चेति वक्तव्यम्। वा पदान्तस्य 8-4-59 इति परसवर्नविकल्पो यथा स्यातिति। अतः इति किम्? तेतिम्यते। तपरकरणं तु भूतपूर्वस्य अपि दीर्घस्य निवृत्त्यर्थम्, बाभम्यते। अनुनासिकान्तस्य इति किम्? पापच्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

वृत्तिः अनुनासिकान्तस्याङ्गस्य योऽभ्यासोऽदन्तस्तस्य नुक् स्याद्यङ्यङ्लुकोः । When followed by either the affix “यङ्” or a लुक् elided affix “यङ्”, the reduplicate (अभ्यासः) takes the augment “नुक्” provided the following conditions are satisfied :
i) the अभ्यासः belongs to a अङ्गम् ending in a nasal consonant and ii) the अभ्यासः ends in a अकारः।

Note: नुकानुस्वारो लक्ष्यते – The augment “नुक्” prescribed in this section (from 7-4-85 to 7-4-87) stands for a अनुस्वारः।

उदाहरणम् – पुनः पुनर्भृशं वा रमते = रंरम्यते – is a frequentative/intensive form derived from √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९).

The विवक्षा is लँट्, कर्तरि, यङन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
रम् + यङ् 3-1-22
= रम् + य 1-3-3, 1-3-9
= रम्य् रम्य 6-1-9
= र रम्य 7-4-60
= रंरम्य 7-4-85, 1-1-46. Note: नुकानुस्वारो लक्ष्यते।
Note: 7-4-83 does not apply here because the कित् augment “नुक्” has been added to the अभ्यासः।

“रंरम्य” gets धातु-सञ्ज्ञा by 3-1-32

Note: ङिदन्तत्वादात्मनेपदम् । Since a यङन्त-धातुः ends in the affix “यङ्” which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् a यङन्त-धातुः takes आत्मनेपद-प्रत्ययाः।
रंरम्य + लँट् 3-2-123 = रंरम्य + त 3-4-78, 1-3-12 = रंरम्यते

वार्तिकम् पदान्तवच्चेति वक्तव्यम्

वृत्तिः The augment अनुस्वारः prescribed in this section (from 7-4-85 to 7-4-87) should be treated as if it is at the end of a पदम्। Note: This allows 8-4-59 वा पदान्तस्य to apply.

Example continued from 3-1-23

जंगम्य
= जङ्गम्य/जंगम्य । 8-4-59. Note: वार्तिकम् under 7-4-85, पदान्तवच्चेति वक्तव्यम् lets us apply 8-4-59 here.

“जङ्गम्य/जंगम्य” gets धातु-सञ्ज्ञा by 3-1-32

Note: ङिदन्तत्वादात्मनेपदम् । Since a यङन्त-धातुः ends in the affix “यङ्” which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् a यङन्त-धातुः takes आत्मनेपद-प्रत्ययाः।
जङ्गम्य/जंगम्य + लँट् 3-2-123 = जङ्गम्य/जंगम्य + त 3-4-78, 1-3-12 = जङ्गम्यते/जंगम्यते