Table of Contents

<<7-4-83 —- 7-4-85>>

7-4-84 नीग् वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्

प्रथमावृत्तिः

TBD.

काशिका

वञ्चु स्रंसु ध्वंसु भ्रंसु कस पत पद स्कन्द इत्येतेषाम् अभ्यासस्य नीगागमो भवति यङि यङ्लुकि च। वञ्चु वनीवच्यते। वनीवञ्चीति। स्रंसु सनीस्रस्यते। सनीस्रंसीति। ध्वंसु दनीध्वस्यते। दनीध्वंसीति। भ्रंसु बनीभ्रस्यते। बनीभ्रंसीति। कस चनीइकस्यते। चनीकसीति। पत पनीपत्यते। पनीपतीति। पद पनीपद्यते। पनीपदीति। स्कन्द चनीस्कद्यते। चनीस्कन्दीति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

405 इत्यादीति। दनीध्वनस्यते। बनीभ्रस्यते। चनीकस्यते। पनीपत्यते। पनीपद्यते। चनीस्कद्यते। एं वनीञ्चीति सनीरुआंतीति दनीध्वंसीतीत्यादि यङ्लुक्युदाहर्तव्यम्।

`अभ्यासाच्चे'ति कुत्वेन जेघ्नीयत इति सिध्यति, तथापि प्रक्रियालाघवाय `घ्नी'त्युक्तमिति मनोरमा। अन्ये तु `सेर्हिः' `मेर्नि'रिति इकारोच्चारणसामथ्र्याद्यता `एरु'रित्युत्वं न भवति तथा ह्नीभावे हि कृते `अभ्यासाच्चे'ति कुत्वं न स्यादित्याशयेन घ्नीभावः कृत इत्याहुः। अत्र च दिग्यादेशेनैव घ्रीभावेन द्वित्वं न बाध्यते पुनः प्रसङ्गविज्ञानादिति केचित्। वस्तुतस्तु यङन्तावयवस्य द्वितीयाऽवजवधिकस्य द्वित्वं, ध्नीभावस्तु प्रकृतिमात्रस्येति विषयभेदाद्द्वत्वं निर्बाधमेव।

Satishji's सूत्र-सूचिः

वृत्तिः एषामभ्यासस्य नीगागमः स्याद्यङ्यङ्लुकोः। When followed by either the affix “यङ्” or a लुक् elided affix “यङ्”, a reduplicate (अभ्यासः) of the following verbal roots √वञ्च् (वन्चुँ गत्यर्थः १. २१६), √स्रंस् (स्रन्सुँ अवस्रंसने १. ८५७), √ध्वंस् (ध्वंसु अवस्रंसने १. ८५८), √भ्रंस् (भ्रंसुँ अवस्रंसने १. ८५९), √कस् (कसिँ गतिशासनयोः २. १४), √पत् (पतॢँ गतौ १. ९७९), √पद् (पदँ गतौ ४. ६५) and √स्कन्द् (स्कन्दिँर् गतिशोषणयोः १. ११३४) takes the augment “नीक्”।

उदाहरणम् – पुनः पुनर्भृशं वा स्रंसते = सनीस्रस्यते – is a frequentative/intensive form derived from √स्रंस् (स्रन्सुँ अवस्रंसने १. ८५७).

स्रन्स् + यङ् 3-1-22
= स्रन्स् + य 1-3-3, 1-3-9
= स्रस् + य 6-4-24
= स्रस्य् स्रस्य 6-1-9
= स स्रस्य 7-4-60
= स नीक् स्रस्य 7-4-84, 1-1-46

Note: 7-4-83 does not apply here because the कित् augment “नुक्” has been added to the अभ्यासः।
= सनीस्रस्य 1-3-3, 1-3-9

“सनीस्रस्य” gets धातु-सञ्ज्ञा by 3-1-32

Note: ङिदन्तत्वादात्मनेपदम् । Since a यङन्त-धातुः ends in the affix “यङ्” which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् a यङन्त-धातुः takes आत्मनेपद-प्रत्ययाः।
सनीस्रस्य + लँट् 3-2-123 = सनीस्रस्य + त 3-4-78, 1-3-12 = सनीस्रस्यते