Table of Contents

<<7-4-82 —- 7-4-84>>

7-4-83 दीर्घो ऽकितः

प्रथमावृत्तिः

TBD.

काशिका

अकितो ऽभ्यासस्य दीर्घो भवति यगि यङ्लुकि च। पापच्यते। पापचीति। याय्ज्यते। यायजीति। अकितः इति किम्? यंयम्यते। यंयमीति। रंरम्यते। रंरमीति। ननु चात्र अपवादत्वान् नुकि कृते अभ्यासस्य अनजन्तत्वादेव दीर्घत्वं न भविष्यति? एवं तर्हि अकितः इत्यनेन एतज् ज्ञाप्यते, अभ्यासविकारेष्वपवादा न उत्सर्गान् विधीन् बाधन्ते इति। किम् एतस्य ज्ञापने प्रयोजनम्? डोढौक्यते इत्यत्र दीर्घो ऽकितः इत्यनेन सन्ध्यक्षरह्रस्वो न बाध्यते, अचीकरतित्यत्र दीर्घो लघोः 7-4-94 इत्यनेन सन्वदित्वं न बाध्यते, मान्प्रभृतीनां दीर्घेण सनीत्वं न बाध्यते मीमांसते, ई च गणः 7-4-97 इतीत्वेन हलादिशेषो न बाध्यते अजीगणत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

717 अकितोऽभ्यासस्य दीर्घो यङ्यङ्लुकोः. कुटिलं व्रजति वाव्रज्यते..

बालमनोरमा

तत्त्वबोधिनी

399 दीर्घोऽकितः। अकितः किम् ?। यंयम्यते। रंरम्यते। ननु दीर्घश्रुत्योपस्थितेनाऽचा `अत्र लोपोऽभ्यासस्ये'त्यतोऽनुवृत्तमभ्यासस्येत्येतद्विशिष्येत। ततश्चाऽजन्ताभ्यासस्य दीर्घो भवतीत्यर्थात् पापच्यत इत्यादावेव दीर्घो भवेन्न तु यंयम्यते जङ्घनीतित्यादौ। तत्र हि परत्वान्नुकि कृतेऽभ्यासस्याऽजन्तत्वाऽभावाद्दीर्घस्य प्रसक्तिरेव नास्तीति किमनेनाऽकित इत्यनेन। न चाभ्यासावयवस्याऽचो दीर्घ इति वैयधिकरण्यान्वये स्वीकृतेऽकिद्ग्रहणं प्रयोजनवदिति वाच्यं, संभवति सामानाधिकरणे वैयधिकरण्यस्याऽन्याय्यत्वात्। येन नाप्राप्तिन्यायेन नुको दीर्घापवादत्वस्वीकाराच्च। तस्मादकित इति व्यर्थमिति चेत्। अत्राहुः– डोढौक्यते इत्यत्राभ्यासह्यस्वं बाधित्वा परत्वात् `दीर्घोऽकितः' इति दीर्घे कृते डोढौक्यत इति स्यात्। तस्मादभ्यासविकारेषु उत्सर्गविधीन्बाधका न बाधन्त इति ज्ञापनायाऽकित इति ग्रहणं कर्तव्यमिति। रतथाचोक्तज्ञापकनिर्वाहाय `दीर्घोऽकितः' इत्यत्राऽभ्यासस्याऽच इति वैयकरम्यपक्षस्याश्रयणाद्यंयम्यत इत्यादौ दीर्घात्प्रागेव नुकि कृतेऽपि दीर्घः स्यात्, तद्वारणार्थमकित इत्यावश्यकमिति दिक्। अटाट\उfffद्त इति। इह ट\उfffद्शब्दस्य द्वित्वम्।

Satishji's सूत्र-सूचिः

वृत्तिः अकितोऽभ्यासस्य दीर्घो यङ्यङ्लुकोः। The vowel of a reduplicate (अभ्यासः) is elongated when followed by either the affix “यङ्” or a लुक् elided affix “यङ्”, as long as the reduplicate does not receive a कित् augment.

उदाहरणम् – पुनः पुनर्भृशं वा पचति = पापच्यते – is a frequentative/intensive form derived from √पच् (डुपचँष् पाके १. ११५१).

The विवक्षा is लँट्, कर्तरि, यङन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
पच् + यङ् 3-1-22
= पच् + य 1-3-3, 1-3-9
= पच्य् पच्य 6-1-9
= प पच्य 7-4-60
= पा पच्य 7-4-83

“पापच्य” gets धातु-सञ्ज्ञा by 3-1-32

Note: ङिदन्तत्वादात्मनेपदम् । Since a यङन्त-धातुः ends in the affix “यङ्” which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् a यङन्त-धातुः takes आत्मनेपद-प्रत्ययाः।
पापच्य + लँट् 3-2-123 = पापच्य + त 3-4-78, 1-3-12 = पापच्यते