Table of Contents

<<7-4-93 —- 7-4-95>>

7-4-94 दीर्घो लघोः

प्रथमावृत्तिः

TBD.

काशिका

दीर्घा भवति लघोः अभ्यासस्य लघुनि णौ चङ्परे अनग्लोपे। अचीकरत्। अजीहरत्। अलीलवत्। अपीपचत्। लघोः इति किम्? अबिभ्रजत्। लघुनि इत्येव, अततक्षत्। अररक्षत्। चङि इत्यव, अहं पपच। परे इत्येव, अचकमत। अनग्लोपे इत्येव, अचकथत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

536 लघोरभ्यासस्य दीर्घः स्यात् सन्वद्भावविषये. अचीकमत, णिङ्भावपक्षे – (कमेश्च्लेश्चङ् वाच्यः). अचकमत. अकामयिष्यत, अकमिष्यत.. अय गतौ.. 3.. अयते..

बालमनोरमा

158 दीर्घोः लघो। `अत्र लोपोऽभ्यासस्ये'त्यतोऽभ्यासस्येत्यनुवर्तते। अभ्यासस्य लघोर्दीर्घ इति। अभ्यासावयवस्य लघोरित्यर्थः। `सन्वल्लघुनि चङ्परे' इति सूत्रं सन्वच्छब्दवर्जमनुवर्तते। तच्च प्रग्वदेवद्वेधा व्याख्येयम्। तथा च फलितमाह- - सन्वद्भावविषय इति। `सन्यत' इत्यत्र तपरत्वं स्पष्टार्थमिति `दीर्घोऽकित' इति सूत्रे भाष्ये स्पष्टम्। तथाच कि कम् अ तेत्यत्र अभ्यासेकारस्य दीर्घेऽभ्यासचुत्वेऽडागमे परिनिष्ठितं रूपमाह–अचीकमतेति। अत्र लघोर्णिपरत्वं येन नाव्यवधानन्यायाद्बोध्यम्। णिङभावपक्षे त्विति। `आयादय आद्र्धधातुके वे'ति णिङो वैकल्पिकत्वादिति भावः। कमेश्च्लेश्चङ् वक्तव्य इति। अण्यन्तत्वादप्राप्तौ वचनम्। णेरभावादिति। णिङभावपक्षे कमिधातोरनुदात्तेत्त्वात्तङि प्रथमपुरुषैकवचने न भवति, तत्र लघुनि चङ्परेऽनग्लोप इत्यनुवत्र्य चङ्परे णावेव तद्विधानोक्तेः। अत एव सन्वत्त्वाऽभावात्सन्यत इत्यभ्यासाऽसकारस्य इत्त्वं च न भवतीत्यर्थः। `दीर्घो लघो'रिति दीर्घविधौ सन्वत्त्वं न निमित्तं, किंतु लघुनि चङ्पर इत्यस्य तत्रानुवृत्त्या सन्वद्भावविषये तत्प्रवृत्तिः। अतो दीर्घसन्वद्भावाविति पृथगुक्तिः। अत पञ्चभिः श्लोकै#ः सन्वद्भावसूत्रं, `दीर्घो लघो'रिति सूत्रं च विशदयति– संज्ञाया इत्यादिना। अस्मिन् शास्त्रे `कार्यकालं संज्ञापरिभाष'मित्येकः पक्षः। `कार्यकाल'मित्यस्य कार्यप्रदेशकमित्यर्थः। अस्मिन्पक्षे तत्तत्कार्यविधिप्रदेशेषु संज्ञाशास्त्रस्य परिभाषाशास्त्रस्य परिभाषाशास्त्रस्य च उपस्थितिः। `यथोद्देशं संज्ञापरिभाष'मिति पक्षान्तरम्। उद्देशाः- - संज्ञापरिभाषाशास्त्राम्नानप्रदेशाः, तान् अनतिक्रम्य यथोद्देशम्। संज्ञाशास्त्रं परिभाषाशास्त्रं च स्वप्रदेशे स्थितमेव तत्तद्विध्यपेक्षितं स्वं स्वमर्तं समर्पयतीति यावत्। अस्मिन्पक्षे कार्यप्रदेशेषु संज्ञापरिभाषायां तदर्तस्यैवोपस्थितिर्न तु संज्ञापरिभाषाशास्त्रयोरिति स्थितिः। `सन्वल्लघुनी'ति सूत्रे, `दीर्घो लघो'रिति सूत्रे च अङ्गस्येति अभ्यासस्येति चानुवृत्तम्। तत्र कार्यकालपक्षे `पूर्वोऽभ्यास' इति सूत्रं संनिहितम्। ततश्च अङ्गस्य ये द्वे उच्चारणे तयोः पूर्वोऽभ्याससंज्ञः, स सन्वद्भवतीति फलितम्। तत्र कृदन्तोच्चारणशब्दयोगादङ्गस्येति कर्मणि षष्ठी, न त्ववयवषष्ठी,कारकषष्ठ\उfffदा बलवत्त्वात्। अङ्गं च प्रत्यये परतः कृत्स्नमेव प्ररकृतिरूपं, न तु तदेकदेशः। ततश्च कृत्स्नमङ्ग#ं यत्र द्विरुच्यते न तु तदेकदेशमात्रं तत्रैव `दीर्घो लघो'रिति दीर्घः, `सन्वल्लघुनी'ति सन्वद्भावश्च भवति। एवं च अङगस्य एकाच्कत्वे सत्येव तयोः प्रवृत्तिः, तत्र कृत्स्नस्याङ्गस्य द्विरुक्तेः। अनेकाच्केषु तु अङ्गेषु न तयोः प्रवृत्तिः, तत्र एकस्यैव एकाचोऽङ्गैकदेशस्य द्विरुक्तेरिति माधवोमन्यत इति प्रथमश्लोकस्यार्थः। `नानेकाक्ष्वि'त्युक्तं विशदयति—-चकास्तीति श्लोकेन। `चकासृ दीप्तौ'। अर्थमाचष्टे इत्यर्थे णिचि `अर्थवेदयो'रिति प्रकृतेरापुगागमे अर्थापिधातुः। `ऊर्णुञ् आच्छादने'।एते त्रयोऽनेकाच्का धातवः। आदिना `जागृ निद्राक्षये' इत्यादिसंग्रहः। एभ्यो ण्नय्तेभ्यश्चङि अङ्गं कृत्स्नं न द्विरुच्यते, किंतु अङ्गस्य कश्चिदेकाजवयव एव द्विरुच्यते, तस्मादनेकाच्केषु कृत्स्नस्याङ्गस्य द्विरुक्त्यभावात्। किंच अजजागरदित्यत्र सन्वत्त्वमाशङ्क्य `णिपरकलघोर्गकाराकारस्य `जा' इत्यनेन व्यवहितत्वादभ्यासस्य न सन्वत्त्व'मिति समाहितं भाष्ये। तदेतदनेकाच्काङ्गेषु सन्वत्त्वस्याऽप्रवृत्तौ विरुध्येत, कृत्स्नस्याङ्गस्य द्विरुक्तभावादेव तत्र सन्वत्त्वस्याऽप्राप्तौ तच्छङ्काया एवानुन्मेषादित्यस्वारस्याद्यथोद्देशपक्षमालम्ब्य#आह– वस्तुत इति। `अङ्गस्ये'त्यवयवषष्टी। अङ्गावयवस्याभ्याससस्येति लभ्यते। ततश्च ऊर्णुञि ण्यन्ते चङि `नु' इत्येकदेशस्य द्वित्वेऽपि `और्णूनुव' दित्यत्र `दीर्घो लघो'रित्यभ्यासलघुर्दीर्घीभवति। सन्वत्त्वं तु प्रयोजनाऽभावादुपेक्षितम्, अभ्यासे अकाराऽभावेन `सन्यत' इत्यस्याऽसंभवात्। अर्थमाचष्टे इत्यर्थे णिचि प्रकृतेरापुकि अर्थापिथातोश्चङि णिलोपे उपधाह्यस्वे थप् इत्यस्य द्वित्वेऽपि `अर्तीथप'दित्यत्र सन्वद्भावात् `सन्यत' इत्यभ्यासस्य इत्त्वम्, अभ्यासदीर्घश्चेति द्वयं भवतीति जानीम इति तृतीयश्लोकार्थः। `अङ्गस्यावयव' इति पक्षेऽपि चकास्तौ विशेषमाह– - चकास्तौ त्विति। चतुर्थश्लोकोऽयम्। अवस्था–वस्तुस्थितिः। व्यवस्थया। पक्षद्वयेनेति यावत्। `चङ्परे' इत्यनेन अन्यपदार्थतया लब्धस्य णवित्यस्य संनिहितं

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

नीत्येतद्विशेष्यम्। तथा च `चङ्परे णौ यल्लघु' इति प्रतमव्याख्यानं फलितम्। अङ्गमेव वा णेर्विशेष्यम्। तथा च `चङ्परे णौ यदङ्ग'मिति द्वितीयं व्याख्यानं फलितम्। इति व्यवस्थया = पक्षद्वयेन सन्वत्त्वं दीर्घश्चेत्युभयमिदं चकासृधातौ ण्यन्ते णिलोपे द्वित्वे अचचकासदित्यत्र न स्यात्, स्याच्चेत्यन्वयः। तत्र `चङ्परे णौ यल्लघ्वि'ति व्याख्यानेसति नैव उभयं स्यात्, चङ्परस्य णेः कास् इत्यनेन व्यवहितत्वात्। अचीकमतेत्यादौ त्वेकव्यवधानं येन नाव्यवधनानन्यायात्सोढव्यमेव। `चङ्परे णौ यदङ्ग'मिति व्याख्याने तु अचीचकासदित्यत्र उभयं स्यादेव, अङ्गस्य णिपरकत्वसत्त्वादिति बोध्यम्। ननु चङ्परे णौ यल्लध्विति, चङ्परे णौ यदङ्गमिति च व्याख्याभेदे किं प्रमाणमित्यत आह– व्याख्याविकल्पस्य कैयटेनैव वर्णनादिति। `आदर्तव्यते'ति शेषः। ननु णौ इत्यवृत्तिमभ्युपगमस्य अग्लोपेऽपि तदन्वयः किमर्थ इत्यत आह– णेरग्लोपेऽपीति। अगितामिति। `कमुकान्ता' वित्यादिनामपीत्यर्थः। सिद्धय इति। दीर्घसन्वत्त्वसिद्ध्यर्थमित्यर्थः। अन्यथा कमुप्रभृतीनामुकाराद्यनुबन्धलोपमादाय अग्लोपित्वात् दीर्घसन्वद्भावौ न स्यातामित्यर्थः। इति घिणिप्रभृतयः कम्यन्ता दश गताः। क्रम्यन्ता इति। `क्रमु पादविक्षेपे' इत्येतत्पर्यन्ता इत्यर्थः। `अनुनासिकान्ता' इति शेषः। अण रणेति। ऋदित्त्वं `नाग्लोपी'ति निषेधार्थम्। ध्रण शब्द इति। अदुपधोऽयम्। उपदेश इति। धातूपदेशे नकारान्तोऽयम्। अकारस्य उच्चारणार्थस्य निवृत्तौ तवर्गपञ्चमान्त इत्यर्थः। तर्हि णकारस्य कथं श्रवणमित्यत आह– रषाभ्यामिति णत्वमिति। ननु स्वाभाविक एव णकार इत्यस्तु, किं नकारस्य कृतणत्वस्य निर्देश इति कल्पनयेत्यत आह- - णोपदेशेति। नकारस्थानिकणोपदेशस्य `नश्चे' त्यनुस्वारात्मककं फलं यङ्लुकि प्रत्येतव्यमित्यर्थः। दन्ध्रन्तीति। ध्रणधातोर्यङ्लुकि द्वित्वे हलादिशेषे `नुगतोऽनुनासिकान्तस्ये' त्यब्यासस्य नुकि उत्तरखण्डे णकारएव श्रूयेतेति परसवर्णे तस्याऽसिद्धत्वाण्णत्वाऽभावे नकारस्यैव श्रवणम्। स्वाभाविकणकारोपदेशे तु उत्तरखण्डे णकार एव श्रूयेतेति भावः। बणेत्यपीति। पवर्गतृतीयादिरित भावः। `कन दीप्ती'त्यारभ्य अम गत्यादिष्वित्यतः प्राक्तवर्गपञ्चमान्ताः। ष्टन वनेति। आद्यः षोपदेशः। ष्टुत्वसंपन्नष्टकारः। तदाह—स्तनतीति। वन षणेति। द्वितीयः षोपदेशः। ननु `ष्टन वन शब्दे' इति वनेः पठितस्य पुनः व्यर्थ इत्यत आह– अर्थभेदादिति। वनेः शब्दे संभक्तौ च वृत्तिरिष्टा। ष्टनेस्तु शब्द एव वृत्तिरिष्टा। तत्र `ष्टन वन शब्दे संभक्तौ चे'त्युक्तौ ष्टनेरपि संभक्तौ वृत्तिः स्यात्। `ष्टन शब्दे' इत्युक्त्वा `वन संभक्तौ चे'ति पाठे तु गौरवमिति भावः।

तत्त्वबोधिनी

132 दीर्घो लघोः। लघोरभ्यासस्येति। ननु अज्झल्समुदायाऽभ्यासस्य लघुसंज्ञा दुर्लभा, `ह्यस्वं लघु' इति सूत्रितत्वात्। नैष दोषः। इमे हि न समानाधिकरणे षष्ठ्यौ, किं तु व्यधिकरणे, तथा चाभ्यासावयवस्य लघोर्दीर्घ इत्यर्थः। `लघुनि चङ्परेऽनग्लोपे' इतिच सर्वमिहानुवर्तते। तच्च प्राग्वदेव द्वेधा व्याख्येयं। तदाह– `सन्वद्भावविषय इति। `हलादे'रिति प्राचोक्तमिहोपेक्षितं, निष्प्रमाणत्वात्। न हि मुनित्रयोकिं?त विना हलादेरिति व्याख्यातुमुचितम्। न चैवमौन्दिददत् आट्टिटदित्यादौ दीर्घः स्यादिति शङ्क्यम्, अङ्गलघ्वोरुभयोरपि णिचं प्रति विशेष्यत्वे दीर्घस्य तत्राऽप्राप्तेः। चङ्परं हि यदङ्गम् उन्द्? इति, न तदीयोऽभ्यासो, न वा चङ्परणिच्परं यल्लघु तत्परः। एतेन आट्टिटदित्यादिभाष्योदाहरणमेव `हलादे'रिति व्याख्याने प्रमाणमिति, केषांचिदुत्प्रेक्षापि प्रयुक्ता। दीर्घाऽप्राप्त्यैवोदाहरणसौष्ठवस्योक्तत्वात्। लघोः किम् ?। क्ष्णु हिंसायाम्. अचिक्ष्णवत्॥ शास्त्रेऽस्मिन् `कार्यकालं संज्ञापिरभाषं, `यथोद्देशं संज्ञापरिभाषमिति पक्षद्वयमप्यस्ति जातिव्यक्तिपक्षवत्। तथा च `पूर्वोऽभ्यासःर' इत्यस्य `सन्वल्लघुनी'त्यादिना सह पक्षद्व्येऽपि एकवाक्यता समानैव, तथापि कार्यकालपक्षे पदैकवाक्यता, यथोद्देशपक्षे तु वाक्यैकवाक्यतेत्यस्ति विशेषः। तत्रेदानीं कार्यकालपक्षपातिमाधवमतं तावद्व्याचष्टे– संज्ञाया इत्यादिना। श्लोकद्व्येन। अङ्गं यत्रेति। अयं भावः– `सन्वल्लघुनि' `दीर्घो लघो'रिति सूत्रद्वये अङ्गस्येत्यनुवर्तते, अभ्यासस्येति च। तेनाङ्गस्य ये द्वे तयोः पूर्वोऽभ्याससंज्ञकस्तस्येति फलितम्। `द्वे' इत्यत्र च `उच्चारणे' इति विशेष्यसमर्पकमध्याह्यियते, तच्च कृदन्तं , तद्योगादङ्गस्येति कर्मणि षष्ठी। तेन यत्राङ्गं द्विरुच्यते तत्रैव पूर्वस्य दीर्घसन्वद्भावौ स्त इति। अचीकरत्। अपीपचत्। युक्तं चैतत्। अङ्गस्येति षष्ठ्याः कारकविभक्तित्वसंभवे तदुपेक्ष्य शेषष्ठीत्वकल्पनाया अन्याय्यत्वात्। नाङ्गं द्विरुच्यते इति। एवं च अचचकासत्। आर्तथपत्। और्णुनवदित्येव भवतीति भावः। अवयवः कश्चिदिति। हलादेः प्रथमावयवो द्विरुच्यते, अजादेस्तु द्वितीयावयव इत्यर्थः। अङ्गं यत्र द्विरुच्यते तत्र पूर्वस्य दीर्घसन्वद्भावौ विधीयमानौ एकाक्ष्वेवेति च फलितम्। किंच अस्मिन्पक्षे `एकाच' इत्यङ्गस्य विशेषमं शब्दतोऽपि सुलभम्, `एकाचो द्वे' इत्यधिकारादित्याशयेनाह– तस्मादेकाक्ष्विति। स्यादेतत्– उक्तरीत्या ह्यस्वहलादिशेषचुत्वादीन्यपि अनेकाक्षु न स्युः। न चेष्टापत्तिः। दिद्रासति। दिदरिद्रासति। जिगणयिषतीत्यादिलक्ष्यस्य सर्वसंमतत्वात्। तन्निर्वाहार्थं यथोद्देशपक्ष आश्रीयत इतिचेत्, तर्हि इहापि स एवोचितः। अर्थाधिकारपक्षस्यैवाभ्यर्हितत्वात्, वृत्त्यादिषु स्वीकृतत्वाच्चेत्यभिप्रेत्याह- - वस्तुत इति। ऊर्णौ दीर्घ इति। `स्या' दित्यपकृष्यते। और्णुनवत्। इह सन्वद्भावस्तुनोपयुज्यते, णौ कृतस्यादेशस्य स्थानवद्भावेन, निषेधेन वा नुशब्दस्य द्वित्वे सति अभ्यासे अवर्णाऽभावादिति भावः। अर्थापयताविति। अर्थमाचष्टे इत्यर्थे णिच्यापुगागमे ततश्च च्लेश्चङि दीर्घस्य, `सन्यतःर' इतीत्वस्य च प्रवृत्तौ आर्तीथपदित्येव भवतीति भावः। `अर्थ उपयाच्ञाया'मित्यस्य तु चङ्परे णौ आर्तथतेति भवति, न तु तत्र दीर्घसन्वद्भावयोः प्रवृत्तिरिति चुरादिषु स्फुटीभविष्यति। उभयमिति। दीर्घः, सन्वच्चेत्येतद्व्यमित्यर्थः। न स्यात्स्याच्च व्यवस्थयेति। `चङ्परे णौ यल्लघ्वि'ति व्याख्याने न स्यात्, `चङ्परे णौ यदङ्ग'मिति व्याख्याने तु स्यात्। एवं च अचचकासत्,अचीचकासदिति व्याख्याभेदेन रूपद्वयमित्यर्थः। ननु यता `चङपरे णौ यल्लघ्वि'ति व्याख्याने `येन नाव्यवधान' न्यायेन अपीपचदित्यादावेवोभ्यं भवति, न त्वनेकव्यवाये अचचकासदित्यादौ, तथा न्यायसाम्येन `लघनि योऽभ्यास' इत्यत्राप्येकनैव व्यवायस्य स्वीकार्यत्वादचिक्षणदित्यादौ सन्वदितीत्वं न स्यादिति चेत्। अत्राहुः– `अत्स्मृद्दृत्वरे' तीत्त्वापदेन अत्ववचनेन तुल्यजातीयापेक्षेण संयोगस्य व्यवधानेऽपीत्वस्य ज्ञापितत्वान्नोक्तदोषः। अत एव `दीर्घो लघो'रिति सूत्रे लघोरिति सार्थकम्। माधवोऽपि जागृधातावित्थमेवाह। एवं च वदन् यथोद्देशपक्षमेवाशिश्रियत्। तता च ऊर्णुधातौ यत्तेनोक्त'मौर्णुनवदित्यत्र `दीर्घो लघो'रित्यब्यासस्य दीर्घो न भवति, चङपरे णौ यदङ्गं तसय् योऽभ्यास इति सूत्रार्थात्। अत्र त्वह्गावयवस्याभ्यासो न त्वङ्गस्ये' त्यादि, तत्र तस्याप्याग्रहोनास्तीति गम्यते। अतएव चकास्तावचीचकासदित्युदाजहार। तथा च मतभेदाभिप्रायेण पूर्वापरग्रन्थविरोधः समाधेय इति। कातन्त्रपरिशिष्टे त्वित्वदीर्घयोरजीजागरदित्युदाह्मतं, तन्मतदव्येऽप्यसंभवादुपेक्ष्यम्। व्यवस्थामेव विवृणोति णेरिति। `सन्निहित'मिति हेतुगर्भविशेषणं, `लघुनी' त्येतण्णेर्विशेष्यं भवति, सन्निहितत्वादित्यर्थः। अङग्मेवेति। अस्य चङ्पर#ए इत्यत्र आदेशरूपपचङंशे आकाङ्क्षाऽभावेऽपि णाविति प्रत्ययांशे उत्थिताकाङ्क्षत्वादिति हेतुः स्पष्ट एवेति भावः। कैयटेनैवेति। तथा च एकं हरदत्तमतम्,अपरं तु कैयटमतमिति विषयविभागेन व्याचक्षाणा उपेक्षा इति भावः। चङ्परे इत्यावत्र्य अग्लोपविशेषणतयापि योजितं, तस्य फलमाह– णेरिति। श्रिद्रुरुआउषु परतोऽग्लोपित्वाऽसंबवादिहापि चङ्पर इत्येतावतैव णाविति लभ्यत इति बोध्यम्। अगितामपिति। पचिकमिशकिप्रभृतीनामित्यर्थः। नहीत्संज्ञकानां लोपो णिचं प्रतीक्षत इति भावः। णोपदेशफलमिति। अनुस्वार इत्यर्थः। दंध्रन्तीति। `नुगतोऽनुनासिकान्तस्ये'इत्यभ्यासस्य नुक्।

Satishji's सूत्र-सूचिः

वृत्ति: लघोरभ्यासस्य दीर्घः स्यात् सन्वद्भावविषये । In the context where an affix has सन्वद्भावः (behaves as if it is the affix “सन्”) by 7-4-93, a prosodically short (लघु) vowel of the अभ्यासः (reduplicate) is elongated.
Note: 7-4-94 cannot apply unless the conditions specified in 7-4-93 are satisfied first.

Example continued from 7-4-79

चि कमि + अ + त
= ची कमि + अ + त 7-4-94
= ची कम् + अ + त 6-4-51
= अट् ची कम् + अ + त 6-4-71, 1-1-46
= अचीकमत 1-3-3, 1-3-9