Table of Contents

<<7-4-64 —- 7-4-66>>

7-4-65 दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्ते

ऽलर्ष्यापनीफणत्संसनिष्यदत्करिक्रत्कनिक्रदत्भरिभ्रद्दविध्वतोदविद्युतत्तरित्रतःसरीसृपतंवरीवृजन्मर्मृज्याऽगनीगन्ति इति च

प्रथमावृत्तिः

TBD.

काशिका

दाधर्ति दर्धर्ति दर्धर्षि बोभूतु तेतिकते अलर्षि आपनीफणत् संसनिष्यदत् करिक्रत् कनिक्रदत् भरिभ्रत् दविध्वतः दविद्युतत् तरित्रतः सरिसृपतम् वरीवृजत् मर्मृज्य आगनीगन्ति इत्येतानि अष्टादश छन्दसि विषये निपात्यन्ते। दाधर्ति दर्धर्ति दर्धर्षि इति धारयतेः, धृङो वा श्लौ यङ्लुकि वा अभ्यासस्य दीर्घत्वं णिलोपश्च। दाधर्ति। एवं दर्धर्ति। श्लौ रुकभ्यासस्य निपात्यते। तथा दर्धर्षि इति। अत्र च यल्लक्षणेन अनुपपन्नं तत् सर्वं निपातनात् सिद्धम्। बोभूतु इति भवतेः यङ्लुगन्तस्य लोटि गुणाभावो निपात्यते। नैतदस्ति प्रयोजनम्, अत्र भूसुवोस्तिङि 7-3-88 इति गुणाभावः सिद्धः? ज्ञापनार्थं तर्हि निपातनम् एतत्। ज्ञापयति, अन्यत्र यङ्लुगन्तस्य गुणप्रतिषेधो न भवति इति। बोभोति, बोभवीति। तेतिक्ते तिजेः यङ्लुगन्तस्य आत्मनेपदं निपात्यते। यङो ङित्त्वात् प्रत्ययलक्षणेन आत्मनेपदं सिद्धम् एव? ज्ञापनार्थं तु आत्मनेपदनिपातनम्, अन्यत्र यङ्लुगन्तादात्मनेपदं न भवति। अलर्षि इति इयर्तेः लटि सिपि अभ्यासस्य हलादिः शेषापवादो रेफस्य लत्वं निपात्यते। सिपा निर्देशो ऽतन्त्रम्, तिप्यपि दृश्यते अलर्ति दक्षः। आपनीफणतिति फणतेराङ्पूर्वस्य यङ्लुगन्तस्य शतरि अभ्यासस्य नीक् निपात्यते। संसनिष्यदतिति स्यन्देः संपूर्वस्य यङ्लुक्, शतर्येव अभ्यासस्य निक्, धातुसकारस्य षत्वं निपात्यते। न चास्य सम्पूर्वता तन्त्रम्, अन्यत्र अपि हि दृश्यते, आसनिष्यदतिति। करिक्रतिति करोतेः यङ्लुगन्तस्य शतरि चुत्वभ्यावः, अभ्यासककारस्य रिगागमो निपात्यते। कनिक्रदतिति क्रन्देः लुङि च्लेः अङादेशः, द्विर्वचनम् अभ्यासस्य, चुत्वाभावः, निगागमश्च निपात्यते। तथा चास्य हि विवरणं कृतम्। अक्रन्दीतिति भाषायाम्। भरिभ्रतिति बिभर्तेः यङ्लुगन्तस्य शतरि भृञाम् इत् 7-4-76 इति इत्वाभावो जश्त्वाभावो ऽभ्यासस्य रिगागमः निपात्यते। दविध्वतः इति ध्वरतेः यङ्लुगन्तस्य शतरि जसि रूपम् एतत्। अत्र अभ्यासस्य विगागमः ऋकारलोपश्च निपात्यते। दविध्वतो रश्मयः सूर्यस्य। दविद्युततिति द्युतेः यङ्लुगन्तस्य शतरि अभ्यासस्य अम्प्रसारणाभावः अत्त्वम्, विगागमश्च निपात्यते। तरित्रतः इति तरतेः शतरि श्लौ षष्ठ्येकवचने अभ्यासस्य रिगागमः निपात्यते। सरीसृपतम् इति सृपेः शतरि श्लौ द्वितीयैकवचने अभ्यासस्य रीगागमः निपात्यते। वरीवृजतिति वृजेः शतरि श्लौ रीगागमः निपात्यते अभ्यासस्य। मर्मृज्य इति मृजेः लिटि णलि अभ्यासस्य रुगागमः धातोश्च युगागमो निपात्यते। ततो मृजेर् वृद्धिः 7-2-114 न भवति, अलघूपधत्वात्। लघूपधगुणे प्राप्ते वृद्धिरारभ्यते। आगनीगन्ति इति आङ्पूर्वस्य गमेर्लति श्लौ अभ्यासस्य चुत्वाभावः नीगागमश्च निपात्यते। वक्ष्यन्ती वेदागनीगन्ति कर्णम्। इतिकरणम् एवं प्रकारणाम् अन्येषाम् अप्युपसङ्ग्रहार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.