Table of Contents

<<7-3-87 —- 7-3-89>>

7-3-88 भूसुवोस्तिङि

प्रथमावृत्तिः

TBD.

काशिका

भू सू इत्येतयोः तिङि सार्वधातुके गुणो न भवति। अभूत्। अभूः। अभूवम्। सुवै, सुवावहै, सुवामहै। सूतेर् लुग्विकरनस्य इदं ग्रहणम्। सुवतिसूययोर् विकरणेन तिङो व्यवधानम्। विकरणस्यैव ङित्त्वाद् गुणाभावः सिद्धः। तिङि इति किम्? भवति। सार्वधातुके इत्येव, व्यतिभविषीष्ट। अथ बोभवीति इति यङ्लुकि गुणप्रतिषेधः कस्मान् न भवति? ज्ञापकात्, यदयं बोभूतु इति गुणाभावार्थे निपातनं करोति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

442 भू सू एतयोः सार्वधातुके तिङि परे गुणो न. अभूत्. अभूताम्. अभूवन्. अभूः. अभूतम्. अभूत. अभूवम्. अभूव. अभूम.

बालमनोरमा

72 भूसुवोस्तिङि। `मिदेर्गुण' इत्यतो `गुण' इति, `नाभ्यास्तस्याचि पिती'त्यतो नेति सार्वधातुक इति चानुवर्तते। तदाह–एतयोरिति। भू सू इत्यनयोरित्यर्थः। इह `षूङ् प्राणिगर्भविमोचने' इतिलुग्विकरणस्यैव ग्रहणं, न तु सुवतिसूयत्योः शविकरणश्यन्विकरणयोरपि, तत्र तिङो विकरणेन व्यवधानात्। अथ अभूत् इत्यत्र तकारस्येडागममाशह्कितुमाह–

तत्त्वबोधिनी

55 `षूझ् प्राणिगर्भविमोचने'। सुवतिसूयत्योस्तु न ग्रहणं, तिङो विकरणेन व्यवधानात्।

Satishji's सूत्र-सूचिः

वृत्ति: “भू” “सू” एतयोः सार्वधातुके तिङि परे गुणो न। “भू” and “सू” do not take the गुण: substitution when followed by a “तिङ्”-प्रत्यय: (ref. 3-4-78) which has the designation सार्वधातुकम्।

Example continued from 2-4-77.

भू + त् 7-3-88 stops 7-3-84
= अट् भूत् 6-4-71, 1-1-46
= अभूत् 1-3-3, 1-3-9