Table of Contents

<<7-4-56 —- 7-4-58>>

7-4-57 मुचो ऽकर्मकस्य गुणो वा

प्रथमावृत्तिः

TBD.

काशिका

मुचो ऽकर्मकस्य गुणो वा भवति सनि सकारादौ परतः। हलन्ताच् च 1-2-10 इति कित्त्वप्रतिषेधो विकल्प्यते। मोक्षते वत्सः स्वयम् एव, मुमुक्षते वत्सः स्वयम् एव। अकर्मकस्य इति किम्? मुमुक्षति वत्सं देवदत्तः। कर्मकर्तरि मुचिरकर्मको भवति, कर्मविशेषस्य अविवक्षिताद्वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

629 णिज्विज्विषामभ्यासस्य गुणः स्यात् श्लौ. नेनेक्ति. नेनिक्तः. नेनिजति. नेनिक्ते. निनेज, निनिजे. नेक्ता. नेक्ष्यति, नेक्ष्यते. नेनेक्तु. नेनिग्धि..

बालमनोरमा

452 मुचोऽकर्मकस्य। सादौ सनीति। शेषपूरणमिदम्। `सः सी'त्यतः सीत्, `सनि मीमे'त्यतः सनीति चानुवृत्तेरिति भावः। `हलन्ताच्चे'ति कित्तवाद्गुणनिषेधे प्राप्ते वचनम्। अभ्यासलोप इति। `अत्र लोपः' इत्यनेने'ति शेषः। मोक्षते इति। `अत्र लोपः' इत्यभ्यासलोपः। तङि त्विति। `न वृद्भ्यः' इत्यत्र परस्मैपदग्रहणानुवृत्तेरुक्तत्वादिति भावः। निनृत्सतीति। इडभावपक्षे `हलन्ताच्चे'ति कित्त्वान्न गुणः।

तत्त्वबोधिनी

392 मुचोऽकर्मकस्य। `हलन्ताच्चे'ति कित्त्वेन गुणाऽभावे प्राप्ते विधिरयम्। विवत्सतीति। `वृद्भ्यः स्यसनो'रिति विकल्पेन परस्मैपदम्।

Satishji's सूत्र-सूचिः

TBD.