Table of Contents

<<7-4-55 —- 7-4-57>>

7-4-56 दम्भ इच्च

प्रथमावृत्तिः

TBD.

काशिका

दम्भेः अच इकारादेशो भवति, चकारातीत् च सनि सकारादौ परतः। धिप्सति, धीप्सति। सि इत्येव, दिदम्भिषति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

449 दम्भ इच्च। `सनि मीमे'त्यतः सनीति, अच इति चानुवर्तते। चकारात् `आप्ज्ञप्यृधा'मिति सूत्रादीदिति समुच्चीयते। `सः सी'त्त सीत्यनुवृत्तं सनो विशेषणं, तदादिविधिः। तदाह– दम्भेरच इत्यादि। अभ्यासलोप इति। `अत्र लोपः' इत्यनेने'ति शेषः। दिम्भ् स इति स्थिते इक्समीपादनुस्वारादव्यवहितपरत्वाऽभावेऽपि हलन्तादित्यस्य प्रवृत्तिमुपपादयति – हलन्ताच्चेत्यत्रेति। हल्ग्रहणं हल्त्वजात्याक्रान्तैकाऽनेकव्यक्तिरपरिमिति प्रागुक्तमित्यर्थः। ततः किमित्यत आह- - तेनेति। धिप्सतीति। `सनीवन्ते'ति इडभावे इत्त्वे रूपम्. धीप्सतीति। इडभावे इत्त्वे च रूपम्. दिदम्भिषतीति। इट्पक्षे सनो झलादित्वाऽभावादकित्त्वान्नलोपो नेति भावः। शिश्रीषतीति। `सनीवन्ते'ति इडभावे `अज्जने'ति दीर्घः। सनः कित्तवान्न गुणः। इट्पक्षे आह– शिश्रयिषतीति। अझलादित्वान्न कित्त्वं, नाप्यज्झनेति दीर्घः। स्वृधातोः सनि ऋकारस्य उत्त्वविधिं स्मारयति– उदोष्ठ\उfffदेति। सुस्वूर्षतीति। `सनीवन्ते'ति इडभावे ऋकारस्य `अज्झने'ति दीर्घे कृते उत्त्वे रपरत्वे `उपधायां चे'ति दीर्घ इति भावः। सिस्वरिषतीति। `स्वृ\त्' इत्स्य द्वित्वे उदरत्वे इत्तवमिति भाव-। युयूषतीति। `सनीवन्ते'ति इडभावे `अज्झने'ति दीर्घः। यियविषतीति। इट्पक्षे `द्विर्वचनेऽची'ति गुणनिषेधात् `यु'इत्यस्य द्वित्वम्। `ओः पुयण्जी'तीत्त्वमिति भावः। ऊर्णुनूषतीति। `सनीवन्ते'ति इडभावपक्षे `न न्द्रा' इति रेफं वर्जयित्वा नुस् इत्यस्य द्वित्वे `अज्झने'ति दीर्घः। `इको झलि'ति सनः कित्त्वान्न गुणः। इट्पक्षे तु `विभाषणोर्णो'रिति सनो ङित्त्वविकल्पं मत्वाह—ऊर्णुनुविषति। ऊर्णुनविषतीति। ङित्त्वपक्षे गुणाऽभावान्नुशब्दस्य द्वित्वे उत्तरखण्डे उवङ्। ङित्त्वाऽभावपक्षे `नु'इत्यस्य द्वित्वे उत्तरखण्डस्य गुणावादेशाविति भावः। उभयत्राप्यभ्यासे उवर्णः श्रूयते। ननु ङित्त्वाऽभावपक्षे ऊर्णुं इस इति स्थिते द्वित्वात्, प्रागेव परत्वाद्गुणे अवादेशे च कृते नव्शब्दस्य द्वित्वेऽभ्यासस्याऽत इत्त्वे ऊर्णिनविषतीति अभ्यासे इकार एव श्रूयेत, नतु उकार इत्याशङ्क्य निराकरोति- - द्विर्वचनेऽचीति। अस्मिन् सूत्रे `स्थानिव'दित्यनुवत्र्य रूपातिदेशं चाश्रित्य द्वित्वनिमित्ते अचि परे योऽजादेशः स द्वित्वे कर्तव्ये स्थानिरूपं प्रतिपद्यते इत्येकोऽर्थः। `न पदान्ते'त्यतो नेत्यनुवर्त्त्य द्वित्वनिमित्ते अचि योऽजादेशः स न स्याद्?द्वित्वे कर्तव्ये इत्यन्योऽर्थः। तत्र प्रथमव्याख्याने तु कृतस्यापि गुणस्य स्थानिभूतोकाररूपप्रतिपत्त्या `नु'इत्यस्य द्वित्वे अभ्यासे उकार एव श्रूयते। द्वितीव्याख्यानेऽपि द्वित्वात् प्राग्गुणस्य निषिद्धतया नुशब्दस्यैव द्वित्वे अभ्यासे उकार एव श्रूयते इति भावः। ननु ऊर्णु इस इति सन्नन्तस्य द्वित्वरूपकार्यभाक्त्वेन तदन्तर्गतसय् इस इत्यस्यापि कार्यित्वान्न द्वित्वनिमित्तत्वम्, `नहि कार्यी निमित्ततया आश्रीयते' इत्युक्तेः। तथा च द्वित्वे कर्तव्ये द्वित्वनिमित्ताऽच्परकादेशस्य क्रियमाणो निषेधः कथमिह गुणस्य प्रसज्यते इत्याशङ्क्य निराकरोति– न च सन्नन्तस्येति। कार्यमनुभवन्निति। अत्र व्याख्यानमेव शरणम्। न चेह सन्निति। कितं नुशब्द इत्यर्थः। बुभूर्षतीति। `सनीवन्ते'ति इडभावपक्षे भृ स इति स्थिते `अज्झने'ति दीर्घे `उदोष्ठ\उfffद्पूर्वस्ये'त्युत्त्वे रपरत्वे उत्तरखण्डस्य `हलि चे'ति दीर्घः। सनः कित्त्वान्न गुण इति भावः। इट्पक्षे आह– बिभरिषतीति। भृ इस इति स्थिते द्वित्वे उरदत्वे रपरत्वे हलादिशेषे अभ्यासस्य अत इत्त्वे उत्तरखण्डस्य गुणे रपरत्वमिति भावः। ज्ञपिः पुगन्तो भित्संज्ञक इति। `सनीवन्ते'ति सूत्रे गृह्रते' इति शेषः। `मारणतोषणनिशामनेषु ज्ञे'ति घटादौ।ततो हेतुमण्णौ पुकि घटादित्वेन मित्त्वादुपधाह्यस्वे ज्ञपीति ण्नय्तो गृह्रत इत्यर्थः। पकारान्तश्चौरादिकश्चेति। `ज्ञप मिच्चे'ति यः स्वतः परकारान्तः पठितश्चुरादौ, न तु पुगन्तः, सोऽपि `सनीवन्ते'ति सूत्रे गृह्रते इत्यर्थः। इडभावे इति। उभयविधादपि ण्यन्ताज्ज्ञपीत्यस्मात्सनि इडभावपक्षे णेः परसय् सनः `इको झल्' इति कित्त्वाण्णेर्गुणो नेत्यर्थः। परत्वादिति। णेर्लोपे सति अचोऽभावान्न दीर्घ इति भावः। तथा च `ज्ञी' बित्यस्य द्वित्वे हलादिशेषे `अत्र लोपःर' इत्यभ्यासलोपे परिनिष्ठितमाह– ज्ञीप्सतीति। इट्पक्षे आह– जिज्ञपयिषतीति। सनधातोः सनि आह- - जनसनेत्यात्त्वमिति। `नकारस्ये'ति शेषः। सिषासतीति। आत्त्वे कृते सा इत्यस्य द्वित्वे अभ्यासस्य ह्यस्वे अत इत्त्वे षत्वे रूपम्। नच `स्तौतिण्योरेवे'ति नियमान्न ष इति शङ्क्यं, सनः षत्वे सत्येव तत्प्रवृत्तेः। इट्पक्षे त्वाह- - सिसनिषतीति। अत्र `जनसने'त्यात्त्वं तु न, सनो झलादित्वाऽभावात्। `स्तौतिण्योरेवे'ति निमयान्न ष इति भावः। तनिपतीति। प्राप्तविभाषेयम्।

तत्त्वबोधिनी

390 यियविषतीति। `द्विर्वचनेऽचीत्यादेशनिषेधाद्द्वित्वे कृतेऽभ्यासस्योवर्णस्येत्वम्। ऊर्णुनूषतीति। इडभावे `अज्झनगमा'मिति दीर्घः। इट्पक्षे तु `विभाषोर्णो'रिति वा ङित्त्वम्। न चेह सन्निति।किं तु नुशब्द इत्यर्थः। कित्त्वान्न गुण इति। णिचः स्थाने इत्यर्थः। सन्वक्तव्यः। स्वा मुमूर्षतीति। एक\उfffदाविषया मरणशङ्केति बोधः। मरणाऽऽशङ्काविषयो भवतीत्यन्ये। `पूर्ववत्सनः' इत्यात्मनेपदमिह न शङ्क्यं, `शदे'रित्यादसूत्रद्वये `सनो ने'त्यनुवर्त्त्य वाक्यभेदेन व्याख्येयमिति वक्ष्यमाणत्वात्।

Satishji's सूत्र-सूचिः

TBD.