Table of Contents

<<7-4-29 —- 7-4-31>>

7-4-30 यङि च

प्रथमावृत्तिः

TBD.

काशिका

यगि च परतः अर्तेः संयोगादेश्च ऋतः गुणो भवति। अरार्यते। सास्वर्यते। दाध्वर्यते। सास्मर्यते। अर्तेः अट्यर्त्यशूर्णोतीनाम् उपसंख्यानम् इति यङ्। न न्द्राः संयोगादयः 6-1-3 इति द्विर्वचनप्रतिषेध्ः यकारस्य नेष्यते। हन्तेर्हिसायां यङि घ्नीभावो वक्तव्यः। जेघ्नीयते। हिंसायाम् इति किम्? जङ्घन्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

400 यङि च। इह `गुणोऽर्तिसंयोगाद्यो'रित्येतत्सर्वमप्यनुवर्तते। यकारपररेफस्येति। यदि भाष्योदाहरणं सामान्यापेक्षं ज्ञापकं स्यात्तदाऽर्यमाख्यत् आरर्यदित्यादि सिध्यति।

Satishji's सूत्र-सूचिः

TBD.