TBD.
कपि प्रत्यये परतो ऽणो ह्रस्वो न भवति। बहुकुमारीकः। बहुवधूकः। बहुलक्ष्मीकः। गोस्त्रियोरुपसर्जनस्य 1-2-48 इत्ययम् अपि ह्रस्वः कपि न भवति। समासार्थे हि उत्तरपदे कपि कृते, पश्चात् कबन्तेन सह समासेन भवितव्यम् इति स्त्रीप्रत्ययान्तसमासप्रातिपदिकं न भवति।
TBD.
–
825 न कपि। अणो ह्यस्व इति।`केऽणः' इत्यतः, `शृ?दृ?प्रा'मित्यतश्च तदनुवृत्तेरिति भावः। ननु `कल्याणपञ्चमीकः पक्ष' इत्यत्र पञ्चदशाहोरात्रात्मके पक्षेऽन्यपदार्थे पञ्चम्या रात्रेः प्रवेशात्प्राधान्यं दुर्वारमित्यत आह–अत्र तिरोहितेति। रात्रे तत्प्रवेशाऽभावादप्राधान्यमिति भावः। भाष्ये एवमुदाहरणेवात्र लिङ्गम्। ऋदन्तोत्तरपदात्कपमुदाहरति–बहुकर्तृक इति। बहवः कर्तरो यस्येति विग्रहः। तदेवमपूरणीप्रियादिषित्यत्र पूरणीविषयं प्रपञ्च्य प्रियादिषु परेषु पुंवद्भावनिषेधस्य प्रयोजनं पृच्छति–अप्रियादिषु किमिति। कल्याणीप्रिय इति। कल्याणी प्रिया यस्येति विग्रहः। प्रियादिगणं पठति–प्रिया मनोज्ञेत्यादि।
पुंवत्त्वमित्यत आह–सामान्ये नपुंसकमिति। `आश्रित्ये'ति शेषः। दृढमिति। पदसंस्कारपक्षे सामान्यपरतच्वमाश्रित्य दृढशब्दो नपुंसकलिङ्गो व्युत्पाद्यः, ततस्तस्य भक्तिशब्देनान्वये पूर्वप्रवृत्तं नपुंसकत्वं नापैति, लिङ्गविशेषस्याऽविवक्षितत्वात्, `वेदाः प्रमाण'मितिवत्। अत्र चार्थे पस्फशाह्निकभाष्ये `शक्यं चानेन \उfffदामांसादिभिरपि क्षुत्प्रतिहन्तु'मिति प्रयोगो लिङ्गम्। नन्वेवं सति प्रियादिषु भक्तिशब्दपाठो व्यर्थ इत्यत आह– स्त्रीत्वविवक्षायां त्विति। वाक्यसंस्कारपक्षे विशेष्यानुसारेण स्त्रीत्वप्रतीतेर्नियमादिति भावः।
–
TBD.