Table of Contents

<<1-2-47 —- 1-2-49>>

1-2-48 गोस्त्रियोरुपसर्जनस्य

प्रथमावृत्तिः

TBD.

काशिका

प्रातिपदिकस्य इति वर्तते। गो इति स्वरूपग्रहणं स्त्री इति प्रत्ययग्रहणं स्वरितत्वात्। उपसर्जनग्रहणं तयोर् विशेषणम्। गोरुपसर्जनस्य स्त्रीप्रत्ययान्तस्य उपसर्जनस्य इति। ताभ्यां प्रातिपदिकस्य तदन्तविधिः। उपसर्जनगोशब्दान्तस्य उपसर्जनस्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्वो भवति। चित्रगुः। शबलगुः। स्त्रियाः निष्कौशाम्बिः। निर्वाराणसिः। अतिखट्वः। अतिमालः। उपसर्जनस्य इति किम्? राजकुमारी। स्वरितत्वं किम्? अतितन्त्रीः। अतिलक्ष्मीः। अतिश्रीः। ईयसो बहुव्रीहेः प्रतिषेधो वक्तवयः। बहुश्रेयसी। विद्यमानश्रेयसेई।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

955 उपसर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात्. अतिमालः. (अवादयः क्रुष्टाद्यर्थे तृतीयया). अवक्रुष्टः कोकिलया - अवकोकिलः. (पर्यादयो ग्लानाद्यर्थे चतुर्थ्या). परिग्लानोऽध्ययनाय पर्यध्ययनः. (निरादयः क्रान्ताद्यर्थे पञ्चम्या). निष्क्रान्तः कौशाम्ब्याः - निष्कौशाम्बिः..

बालमनोरमा

648 प्रकृते च दिशयोर्मध्यः मध्यं मध्येनेत्यादिविग्रहवाक्येषु दिशाशब्दस्य नियतविभक्तिकत्वात्समासविधौ प्रथमानिर्दिष्टत्वाऽभावेऽपि अनेनोपसर्जनत्वं भवति। पूर्वनिपातस्तु न भवतीति स्थितम्। गोस्त्रियोः। `ह्यस्वो नपुंसके प्रातिपदिकस्ये'त्यतो `ह्यस्व' इति `प्रातिपदिकस्ये'ति चानुवर्तते। उपसर्जनस्येति गोस्त्रिर्विशेषणम्। प्रत्येकाभिप्रायमेकवचनम्। स्त्रीशब्देन स्त्रीप्रत्ययो गृह्रते। प्रत्ययग्रहणपरिभाषया तदन्तविधिः। उपसर्जनभूतस्य गोशब्दस्य स्त्रीप्रत्ययान्तस्य चेति लभ्यते। तदुभयं प्रातिपदिकस्य विशेषणम्। तेन तदन्तविधिः। तदाह–उपसर्जनमित्यादिना। अत्र च शास्त्रीयमेवोपसर्जनं गृह्रते,न त्वप्रधानमात्रं, कुमारीमिच्छन् कुमारीवाचरन्वा ब्राआहृणः कुमारीत्यत्रातिप्रसङ्गात्। अव्ययीभावश्चेत्यव्ययत्वमिति।

तत्त्वबोधिनी

573 गोस्त्रियोः। उपसर्जनस्येति गोस्त्रियोर्विशेषणम्। एकवचनं तु प्रत्येकाभिप्रायेण। गोस्त्रीभ्यां तु प्रातिपदिकं विशेष्यते। विशेषणेन तदन्तविधिरित्याशयेनाह–उपसर्जनंय इति। उपसर्जनमिह शास्त्रियं गृह्रते, न त्वप्रधानलक्षणम्। तेन कुमारीवाऽऽचरन्ब्राआहृणः कुमारीत्यत्र न दोष इत्युक्तम्। स्त्रीप्रत्ययान्तमिति। रुयधिकारोक्तटाबाद्यन्तमित्यर्थः। तेनातिलक्ष्मीरित्यादौ नातिप्रसङ्गः। नन्वेवमपि `राजकुमारीपुत्र'इत्यादावतिप्रसङ्ग इति चेत्। अत्राहुः– उपसर्जनस्य ससंबन्धिकतया यस्य प्रातिपदिकस्य ह्यस्वो विधीयते तदर्थं प्रति यद्युत्तरपदभूतयोर्गोस्त्रियोर्गुणीभावस्तदैव ह्यस्वत्वमिति भाष्यादावुक्तत्वान्न दोषः। भाष्यदावपि उत्तरपदभूतयोरित्यर्थलाभस्तु `कृत्तद्धिते'त्यतः समासपदानुवर्तनादिति बोध्यमिति।

Satishji's सूत्र-सूचिः

TBD.