TBD.
दयतेरङ्गस्य लिटि परतो दिगि इत्ययम् आदेशो भवति। अव्दिग्ये, अवदिग्याते, अवदिग्यिरे। दयतेः इति दीङो ग्रहणं न तु दय दाने इत्यस्य। तस्य हि लिति आम् विहितः। दिग्यादेशेन द्विर्वचनस्य बाधनम् इष्यते।
TBD.
–
225 दयतेर्दिगि। `दिगी'ति लुप्तप्रथमाकम्।देङ्धातोर्दिगीत्यादेशः स्याल्लिटीत्यर्थः। ननु लिट एशादौ दिग्यादेशे कृते द्वित्वे सति दिदग्ये इत्यादि स्यादित्यत आह–दिग्यादेशेनेति। एतच्च स्पष्टम्। वृत्तिरिति। भाष्यस्याप्युपलक्षणम्। क्रादिनियमादिट्। दिग्यिषे दिग्याथे दिग्यिध्वे। दिग्ये दिग्यिवहे दिग्यिमहे। दाता। दास्यते। दयताम्। अदयत। दयेत। दासीष्ट।
197 दिग्यादेशेनेति। दयतेर्लिटि परे द्वित्वं प्राप्तं, दिग्यादेशश्च, तत्र विशेषविहितेन दिग्यादेशेन द्वित्वशास्त्रस्य बाधः, न चैवं `प्यायः पी', `चक्षिङः ख्या'ञिति पीख्याञोरपि विशेषविहितत्वात्ताभ्यां द्वित्वबाधः स्यादिति वाच्यं, विषयसप्तमीमाश्रित्य लिडुत्पत्तेः प्रागेव तयोः प्रवृत्तत्वात्। दिग्यादेशविधौ तु लिटीति परसप्तम्येव, न तु विषयसप्तमी, लक्ष्यानुरोधात्। तदेत्सूचयति– इष्यत इति। `दयतेर्लिटि द्वित्वे प्राप्ते तद्बाधित्वा परत्वाद्दिग्यादेश'इति तु नोक्तम्। परस्परलब्धावकाशयोरेव परस्य बलीयस्त्वात्। दिग्यादेसं विना द्वित्वस्य सावकाशत्वेऽपि द्वित्वं विना दिग्यादेशस्य तदभावादिति दिक्।
TBD.