Table of Contents

<<7-3-54 —- 7-3-56>>

7-3-55 अभ्यासाच् च

प्रथमावृत्तिः

TBD.

काशिका

अभ्यासादुत्तरस्य हन्तिहकारस्य कवर्गादेशो भवति। जिघांसति। जङ्घन्यते। अहं जघन। अभ्यासनिमित्ते प्रत्यये हन्तेरङ्गस्य यो ऽभ्यासः तस्मादेव एतत् कुत्वम्। इह न भवति, हननीयितुम् इच्छति जिहननीयिषति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

562 अभ्यासात्परस्य हन्तेर्हस्य कुत्वं स्यात्. जघनिथ, जघन्थ. जघ्नथुः. जघ्न. जघ्निव. जघ्निम. हन्ता. हनिष्यति. हन्तु, हतात्. हताम्. घ्नन्तु..

बालमनोरमा

261 अभ्यासाच्च। `हो हन्ते'रित्यनुवर्तते। `चजोः कु घिण्ण्यतो'रित्यतः कुग्रहणं च। तदाह–अभ्यासात्परस्येत्यादिना। जघनिथ जघन्थेति। इडभावे नस्याऽनुस्वारपरसवर्णौ। जघ्नथुः। जघ्न। जघान–जघन, जघ्निव जघ्निम। लृटि स्ये इण्निषेधमाशङ्क्याह- - ऋद्धनोरिति। हन् हि इति स्थिते `हुझल्भ्यः' इति धित्वे प्राप्ते–।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

वृत्ति: अभ्यासात्परस्य हन्तेर्हस्य कुत्वं स्यात्। The हकार: of √हन् (हनँ हिंसागत्योः #२. २) takes a कवर्गादेश: (घकार:) when it follows a अभ्यास:।

उदाहरणम् – जिघांसति is a desiderative form derived from √हन् (हनँ हिंसागत्योः #२. २).
The विवक्षा is लँट्, कर्तरि, सन्नन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

हन् + सन् 3-1-7
= हन् + स 1-3-3, 1-3-9. Note: 7-2-10 stops 7-2-35
= हान् + स 6-4-16
= हान् स् हान्स 6-1-9
= झान् स् हान्स 7-4-62, 1-1-50
= झा हान्स 7-4-60
= झ हान्स 7-4-59
= झि हान्स 7-4-79
= झि घान्स 7-3-55
= झि घांस 8-3-24
= जिघांस 8-4-54, 1-1-50

“जिघांस” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

जिघांस + लँट् 3-2-123 = जिघांसति 1-3-62, 1-3-78