Table of Contents

<<7-3-52 —- 7-3-54>>

7-3-53 न्यङ्क्वादीनां च

प्रथमावृत्तिः

TBD.

काशिका

न्यङ्कु इत्येवम् आदीनां कवर्गादेशो भवति। न्यङ्कुः नावञ्चेः इति उप्रत्ययः। मद्गुः मिमस्जिभ्य उः इति मस्जेः उप्रत्ययः। भृगुः प्रथिमदिभ्रस्जां सम्प्रसारणं सलोपश्च इति उप्रत्ययः। दूरेपाकः, फलेपाकः दूरे पच्यते स्वयम् एव, फले पच्यते स्वयम् एव। पचाद्यच्। निपातनाद् वृद्धिः। तत्पुरुषे इऋति बहुलम् 6-3-14 इति सप्तम्या अलुक्। क्षणेपाकः इत्यपि हि केचित् पठन्ति। दूरेपाका, फलेपाका इत् टाबन्तमप्रे ऽधीयते। उकारान्तावपरे दूरेपाकुः फलेपाकुः इति। तेषाम् उप्रत्ययः निपातनादेव। तक्रम् वक्रम् इति पञ्चतेर् वञ्चतेश्च स्फायितञ्चिवञ्चि इत्यादिना सूत्रेण रक्। व्यतिषङ्गः व्यतिषजति इति पचाद्यच्। अनुषङ्गः। अवसर्गः। उपसर्गः। श्वपाकः, मांसपाकः, कपोतपाकः, उलूकपाकः इति कर्मोपदादण् प्रत्ययः। संज्ञाया अन्यत्र अर्हः, अवदाहः, निदाहः। न्यग्रोधः, वीरुदित्यत्र न्यक्पूर्वस्य रुहेः पचाद्यचि, विपूर्वस्य क्विपि धकारो विधीयते। न्यग्रोहयति न्यग्रोधः। विरोहयति इति वीरुत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

568 न्यङ्कुरिति। `कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः' इत्यमरः।

Satishji's सूत्र-सूचिः

TBD.