Table of Contents

<<6-3-13 —- 6-3-15>>

6-3-14 तत्पुरुषे कृति बहुलम्

प्रथमावृत्तिः

TBD.

काशिका

तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति। स्तम्बेरमः। कर्णेजपः। न च भवति। कुरुचरः। मद्रचरः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

815 ङेरलुक्. सरसिजम्, सरोजम्..

बालमनोरमा

957 तत्पुरुषे कृति। तत्पुरुषे सप्तम्या बहुलमलुक्?स्यात्कृदन्ते उत्तरपदे संज्ञायामित्यर्थः। स्तम्बेरम इति। तृणसमूहः स्तम्बः, तस्मिन् रमत इति स्तम्बेरमो हस्ती। कर्णेजप इति। कर्णे जपति=परदोषमुपां\उfffदाआविष्करोतीति कर्णेजपः पिशुनः। `स्तम्बकर्णयो रमिजपो'रित्यच्। उपपदसमासः। क्वचिन्नेति। बहुवग्रहणादिति भावः। कुरुचर इति। `चरेष्टः' इत्यधिकरण उपपदेः चरेष्टः। उपपदसमासः। यद्यपि हलदन्तादित्यनुवृत्त्यैव सिद्धमिदं, तथापि बहुलग्रहणादेव सिद्धे `हलदन्ता'दिति नानुवत्र्तनीयमिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

Video

वृत्तिः ङेरलुक् । In a तत्पुरुष: compound, a seventh case affix does not take the लुक् elision variously, when followed by a उत्तरपदम् (latter member of the compound) when ends in a कृत् affix.

Example continued from 3-2-97

सरस् + ङि + ज

अलुक्-पक्षे – Let us first consider the case where the लुक् elision of the affix “ङि” (by 2-4-71) is not done.

= सरस् + ङि + ज In this case 6-3-14 stops 2-4-71
= सरस् + इ + ज 1-3-8, 1-3-9
= सरसिज

लुक्-पक्षे – Now let us consider the case where लुक् elision of the affix “ङि” (by 2-4-71) is done.

= सरस् ज 6-3-14, 2-4-71. “सरस्” gets the पद-सञ्ज्ञा by 1-4-14 with the help of 1-1-62. This allows 8-2-66 to apply in the next step.
= सररुँ ज 8-2-66
= सरउ ज 6-1-114
= सरोज 6-1-87

Thus the प्रातिपदिकम् can take the form “सरसिज” or “सरोज”।

सरसिज/सरोज + सुँ 4-1-2
= सरसिज/सरोज + अम् 7-1-24
= सरसिजम्/सरोजम् 6-1-107