TBD.
अङ्गस्य निमित्तं यः ठः, कश्च अङ्गस्य निमित्तम्, प्रत्ययः, तस्य प्रत्ययठस्य इकः इत्ययम् आदेशो भवति। प्राग् वहतेष् ठक् 4-4-1 आक्षिकः। शालाकिकः। लवणाट् ठञ् 4-4-52 लावणिकः। ठगादिषु यदि वर्णमात्रं प्रत्ययः, उच्चारणार्थो ऽकारः, तदा इह अपि अकार उच्चारणार्थः, वर्नमात्रं तु स्थानित्वेन उपादीयते। सङ्घातग्रहणे तु प्रत्यये ऽत्र अपि सङ्घातग्रहणम् एव। तत्र कणेष्ठः कण्ठः इत्येवम् आदीनाम् उणादीनाम् उणादयो बहुलम् 3-3-1इति न भवति। मथितं पण्यम् अस्य माथितिकः इत्यत्र तु यस्य इति च 6-4-148) इति लोपे कृते इसुसुक्तान्तात् कः (*7,3.51 इति स्थानिवद्भावादिकस्य कादेशः प्राप्नोति, सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति न भवति। यस्येति च इति लोपस्य स्थानिवद्भावाद्वा। पूर्वस्मादपि हि विधौ स्थानिवद्भावः।
TBD.
1030 अङ्गात्परस्य ठस्येकादेशः स्यात्. रैवतिकः..
1154 ठस्येकः। अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणम्यते। तदाह–अङ्गात्परस्य ठस्येति। ठकारस्येत्यर्थः। रैवतिक इति। रेवत्या अपत्यमिति विग्रहः। ठकि ककार इत्, अकार उच्चारणार्थः। ठकारस्य इकोऽदन्त आदेशः। अङ्गात्किम् ?। कर्मण इत्यत्र ठकारस्य न भवति। अत्र भाष्ये अङ्गसंबन्धिठस्येति व्याख्याने कर्मठ इत्यत्र सुपं प्रति कर्मठशब्दस्याङ्गत्वात्तदीयठस्य इकादेशमासङ्ख्य अङ्गसंज्ञानिमित्तं यष्ठकारस्तस्ये को भवति, तादृशश्च ठकारः प्रत्यय एव भवति, नचेह ठकारः प्रत्यय इति समाहितम्। ततश्च ठकि अकार उच्चारणार्थः, ठकार एव प्रत्यय इकति विज्ञायते। `ठस्येति सङ्घातग्रहण'मित्यपि भाष्ये स्थितम्। अस्मिन्पक्षे ठकि अकार उच्चारणार्थो न भवति, सङघात एव प्रत्ययः, इकादेशे अकार उच्चारणार्थ एवेत्यलम्।
–
TBD.