Table of Contents

<<7-3-50 —- 7-3-52>>

7-3-51 इसुसुक्तान्तात् कः

प्रथमावृत्तिः

TBD.

काशिका

इसुसित्येवम् अन्तानाम् उगन्तानां तान्तानां चाङ्गानाम् उत्तरस्य ठस्य कः इत्ययम् आदेशो भवति। इस् सार्पिष्कः। उस् धानुष्कः। याजुष्कः। उक् नैषादकर्षुकः। शाबरजम्बुकः। मातृकम्। पैतृकम्। तान्तात् औदश्वित्कः। शाकृत्कः। याकृत्कः। इसुसोः प्रतिपदोक्तयोर् ग्रहणादिह न भवति, आशिषा चरति आशिषिकः। उषा चरति औषिकः। दोष उपसङ्ख्यानम्। दोर्भ्यां तरति दौष्कः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1055 इस् उस् उक्तान्तात्परस्य ठस्य कः. साक्तुकम्. हास्तिकम्. धैनुकम्..

बालमनोरमा

1202 इसुसुक्तान्तात्कः। इसुसुक्ता अन्ता यस्येति विग्रहः। तकारादकार उच्चारणार्थः। ठस्य कः स्यादिति। ठकि ककार इत्। अकार उच्चारणार्थः, ठकारस्य शिष्यस्य ककार आदेश इति `ठस्येकः' इत्यत्रोक्तम्। `\उfffदायती'त्यस्य विवरणम्– वर्धते इति। `टु ओ \उfffदिआ गतिवृद्ध्योः' इति धातुरिह वृद्धयर्थक इति भावः। उद\उfffदिआदिति। क्विपि तुक्। `उदकस्योदः संज्ञाया'मित्युदादेशः। `तक्रं ह्रदु\उfffदिआन्मथितं पादाम्ब्वर्धाम्बु निर्जलम्, इत्यमरः। प्रतिपदोक्तयोरिति। इत्त्प्रत्ययस्य उस्प्रत्ययस्य च उणादौ प्रतिपदोक्तयोरिह ग्रहणमित्यर्थः। यथा सार्पिष्कः, धानुष्क इति। आशिषिक इति। `चरती'ति ठक्। शासुधातो क्विपि `आशासः क्वौ' इत्युपधाया इत्त्वम्। उषा चरति औषिक इति। वसधातोः क्विपि सम्प्रसारणे उषेति तृतीयान्त्य—सोमे मत्तेर् मिस्सिन्ग्।

तत्त्वबोधिनी

994 इसुसुक्तान्तात्। `ता'दित्युक्तेऽप्यङ्गविशेषणेनैव तान्तादिति लब्धेऽन्तग्रहणं प्रत्ययोपदेशकाले यस्तान्तस्तस्मात्परस्य ठस्य कादेशो न भवतीति `ठस्येकः'इति सूत्रे कैयटः। संनिपातपरिभाषयैव इकस्य कादेशो न स्यादित्यन्तग्रहणं त्युक्तं शक्यमित्यन्ये। उद\उfffदिआदिति। \उfffदायतेः क्विपि तुक्। `उदकस्योदः'इत्युदादेशः। इहैव निपातनात्संप्रसारणाऽभावः।

Satishji's सूत्र-सूचिः

TBD.