TBD.
अभाषितपुंस्कातातः स्थाने यो ऽकारः तस्य आचार्याणाम् आकारादेशो भवति। खट्वाका। अखट्वाका। परमखट्वाका।
TBD.
–
462 आदाचार्याणां। पूर्वसूत्रविषय इति। अभाषितपुंस्काद्विहितस्यातः स्थाने अत इत्यर्थः। शुभ्रिकेति। शुभ्रशब्दो विशेष्यनिघ्नोऽनियतलिङ्गः। ततः स्त्रियां टापि शुभ्राशब्दात्कः। `केऽणः' इति ह्यस्वः, पुनष्टाप्। अत्र कात्पूर्ववर्तिनष्टापोऽभाषितपुंस्काद्विहितत्वाऽभावात्तत्स्थानिकस्याऽतो नेत्वविकल्पः। किं तु `प्रत्ययस्था'दिति नित्यमित्वमित्यर्थः। अनुपसर्जनादित्यधिकारस्य उत्तरावधिमाह–यूनस्तिरित्यभिव्याप्येति। `यूनस्तिः' इत्यत्राप्ययमधिकारो नतु ततः प्रागित्यर्थः। अत्र च व्याख्यानमेव शरणम्। अत्र यद्वक्तव्यं तत् `यूनस्तिः' इत्यत्र वक्ष्यते। ननु बहवः कुरुचरा यस्यां सा बहुकुरुचरा, नदमतिक्रान्ता अतिनदा इत्यादिषु उपसर्जनेषुकुरुचरनदादिशब्देभ्यः `टिड्ढाणञि'त्यादिना विधीयमानानां ङीबादिप्रत्ययानां प्रसक्तिरेव नास्ति, समासप्रत्ययविधौ तदन्तविधिप्रतिषेधात्। तस्मादनुपसर्जनाधिकारो व्यर्थ इत्यत आह– अयमेवेति। अनुपसर्जनादित्यधिकार एवायं स्त्रीप्रत्ययेषु तदन्तविधिं ज्ञापयतीत्यर्थः। एतच्च भाष्ये स्पष्टम्। तत्फलं तु `वनो र चे'त्यत्र वन्नन्तान्तलाभ इत्यादि ज्ञेयम्। ननु स्त्रीप्रत्ययेषु तदन्तविध्यभावेऽपि नद इवाचरति नदा स्त्रीत्यादिषु आचारक्विबन्तप्रकृतिककर्तृक्विबन्तेषु ङीबादिनिवृत्तये अनुपसर्जनाधिकारस्यावस्यकत्वात्कथं तस्य स्त्रीप्रत्ययविधिषु तदन्तविधिज्ञापकतेति चेत्, न, अनुपसर्जनाधिकारस्य स्त्रीप्रत्ययविधिषु तदन्तविधिज्ञापनार्थत्वपरभाष्यप्रामाण्येन स्त्रियामाचारक्विबन्तप्रकृतिककर्तृक्विबन्तानामनभिधानोन्नयनादित्यलम्।
–
TBD.