Table of Contents

<<7-3-26 —- 7-3-28>>

7-3-27 नातः परस्य

प्रथमावृत्तिः

TBD.

काशिका

अर्धात् परस्य परिमाणाकारस्य वृद्धिर् न भवति, पूर्वस्य तु वा भवति तद्धिते ञिति, णिति, किति च परतः। अर्धप्रस्थिकः, आर्धप्रस्थिकः। अर्धकंसिकः, आर्धकंसिकः। अतः इति किम्? आर्धकौडविकः। तपरकरणं किम्? इह मा भूत्, अर्धखार्यां भवा अर्धखारी। किं च स्यात्? अर्धखारी भार्या यस्य अर्धखारीभार्यः, वृद्धिनिमित्तस्य च तद्धितस्य अरक्तविकारे 6-3-39 इति पुंवद्भावप्रतिषेधो न स्यात्। यत्र हि तद्धिते वृद्धिः प्रतिषिध्यते, स वृद्धिनिमित्तं न भवति इति पुंवद्भावो न प्रतिषिध्यते, यथा वैयाकरणी भार्या अस्य वैयाकरणभार्यः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1663 नातः परस्य। परिमाणाऽकारस्येति। परिमाणवाचकावयवस्य अकारस्येत्यर्थः। पूर्वपदस्य तु वेति। पूर्वपदस्यादेरचस्तु वृद्धिर्वेत्यर्थः। आर्धकौडविकमिति। अर्धकुडबेन क्रीतमित्यर्थः। `तेन क्रीत'मिति ठञ्। अत्र कुडवशब्दस्य परिमाणविशेषवाचिन आदेरचोरकारत्वाऽभावान्न वृद्धिनिषेधः। किन्तु `अर्धात्परिमाणस्य'त्युत्तरपदवृद्धिरिति भावः। तपरः किमिति। दीर्घस्याकारस्य वृद्धिनिषेधे फलाऽभावाद्ध्रस्वस्येति सिद्धमिति प्रश्नः। अर्धखारीति। निषेधो न स्यादिति। पूर्वपदस्य वृद्ध्यभावपक्षे वृदिं?ध प्रति फलोपहितनिमित्तत्वाऽभावादिति भावः। पूर्वपदस्य वृद्धिपक्षे तु वृदिं?ध प्रति फलोपहितनिमित्तत्वसत्त्वात् स्यादेव उत्तरपदाकारस्य वृद्धिनिषेधेऽपि पुंवत्त्वनिषेधः। परिमाणान्तस्येत्यारभ्या एतदन्तं साप्तमिकम्। अथ प्रकृतं पाञ्चमिकम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.