Table of Contents

<<7-3-27 —- 7-3-29>>

7-3-28 प्रवाहणस्य ढे

प्रथमावृत्तिः

TBD.

काशिका

प्रवाहणस्य ढे परतः उत्तरपदस्य अचामादेरचः वृद्धिर् भवति, पूर्वपदस्य वा भवति। प्रवाहणस्य अपत्यम् प्रावाहणेयः, प्रवाहणेयः। शुभ्रादिभ्यश्च 4-1-123 इति ढक् प्रत्ययः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1113 प्रवाहणस्य। उत्तरपदस्येत्यधिकृतम्। `तद्धितेष्वचामादे'रित्यतोऽचामादेरित्यनुवर्तते। `मृजेर्वृद्धि'रित्यतो वृद्धिरिति, `अर्धात्परिमाणस्य पूर्वस्य तु वे'त्यतः पूर्वस्य वेतिच। तदाह– प्रवाहणशब्दस्येति। प्रावाहणेयः प्रवाहणेनय इति। शुभ्रादित्वाड्ढकि पूर्वपदस्य पाक्षिकी आदिवृद्धिः। उत्तरपदस्य नित्यम्। उत्तरपदे आकारस्य वृद्धेः फलं तु `प्रवाहणेयीभार्य' इत्यत्र `वृद्धिनिमित्तस्य चे'ति पुंवत्त्वप्रतिषेध एव।

तत्त्वबोधिनी

930 प्रवाहणस्य ढे। उत्तरपदस्येत्यधिक्रियते। `अर्धात्परिमाणे'त्यतः `पूर्वस्य तु वा' इति अनुवर्तते। तदाह—उत्तरपदस्याचामादेरित्यादि। नित्यमुत्तरपदवृद्धेः फलं तु `प्रवाहणेयीभार्यः'इत्यत्र `वृद्धिनिमित्तस्ये'ति पुंवद्भावप्रतिषेधः।

Satishji's सूत्र-सूचिः

TBD.