Table of Contents

<<7-3-21 —- 7-3-23>>

7-3-22 न इन्द्रस्य परस्य

प्रथमावृत्तिः

TBD.

काशिका

इन्द्रशब्दस्य परस्य यदुक्तम् तन् न भवति। सौमेन्द्रः। आग्नेन्द्रः। परस्य इति किम्? ऐन्द्राग्नमेकादशकपालं चरुं निर्वपेत्। इन्द्रशब्दे द्वावचौ, तत्र तद्धिते एकस्य यस्येति च 6-4-148 इति लोपः, अपरस्य पूर्वेण सह एकादेशः इत्यप्राप्तिरेव वृद्धेः, तदेदं प्रतिषेधवचनं ज्ञापकम्, बहिरङ्गम् अपि पूर्वोत्तरपदयोः पूर्वं कार्यं भवति पश्चादेकादेशः इति। तेन पूर्वैषुकामशमः इत्यादि सिद्धं भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1221 नेन्द्रस्य परस्य। `देवताद्वन्द्वे चेट'त्युक्ता उभयपदवृद्धिरुत्तरपदस्य इन्द्रशब्दस्य नेत्यर्थः। सौमेन्द्र इति। `चरु'रिति शेषः। तैत्तिरीये सौमेन्द्रं श्यामाकं चरुमिति छान्दसम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.