Table of Contents

<<7-3-21 —- 7-3-23>>

7-3-22 न इन्द्रस्य परस्य

प्रथमावृत्तिः

TBD.

काशिका

इन्द्रशब्दस्य परस्य यदुक्तम् तन् न भवति। सौमेन्द्रः। आग्नेन्द्रः। परस्य इति किम्? ऐन्द्राग्नमेकादशकपालं चरुं निर्वपेत्। इन्द्रशब्दे द्वावचौ, तत्र तद्धिते एकस्य यस्येति च 6-4-148 इति लोपः, अपरस्य पूर्वेण सह एकादेशः इत्यप्राप्तिरेव वृद्धेः, तदेदं प्रतिषेधवचनं ज्ञापकम्, बहिरङ्गम् अपि पूर्वोत्तरपदयोः पूर्वं कार्यं भवति पश्चादेकादेशः इति। तेन पूर्वैषुकामशमः इत्यादि सिद्धं भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1221 नेन्द्रस्य परस्य। `देवताद्वन्द्वे चेट'त्युक्ता उभयपदवृद्धिरुत्तरपदस्य इन्द्रशब्दस्य नेत्यर्थः। सौमेन्द्र इति। `चरु'रिति शेषः। तैत्तिरीये सौमेन्द्रं श्यामाकं चरुमिति छान्दसम्।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.