Table of Contents

<<7-3-22 —- 7-3-24>>

7-3-23 दिर्घाच् च वरुणस्य

प्रथमावृत्तिः

TBD.

काशिका

दिर्घादुत्तरस्य वरुणस्य यदुक्तं तन् न भवति। ऐन्द्रावरुणम्। मैत्रावरुणम्। दीर्घातिति किम्? आग्निवारुणीमनड्वाहीमालभेते। अग्नेः ईदग्नेः सोमवरुणयोः 6-3-27) इत्यस्य अनङपवादस्य इद्वृद्धौ (*6,3.28 इति प्रतिषेधो विधीयते, तेन दीर्घात् परो न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1223 दीर्घाच्च वरुणस्य। ऐन्द्रावरुणमिति। इन्द्रावरुणौ देवता अस्येति विग्रहे द्वन्द्वः। आनङ्। इन्द्परावरुमशब्दादणि दीर्घाकारात्परत्वाद्वरुणस्य नादिवृद्धिः। आग्निवारुणमिति। `इद्वृद्धौ' इत्यग्नेरानङं बाधित्वा इत्त्वे कृते दीर्घातत्परत्वा।ञभावान्निषेधाऽभावेसति `देवताद्वन्द्वे च' इत्युभयपदवृद्धिरिति भावः इतिप्रसङ्गिकम्।\र्\नथ प्रकृतम्। तदस्मिन्निति। `महाराजप्रोष्ठपदाट्ठ'ञिति सूत्रे वार्तिकमिदम्। `तदस्मिन्वर्तते' इत्यर्थे नवयज्ञादिभ्यः प्रथमान्तेभ्यष्ठञ उपसङ्ख्यानमित्यर्थः। नावयज्ञिकः काल इति। नवयज्ञो नूतनधान्यद्रव्यको यज्ञः- आग्रयणाख्याः, स यस्मिन्काले वर्तते स नावयज्ञिकः। आग्रयणकाल इति यावत् . पाकयज्ञिक इति। पाकयज्ञः-औपासनाग्निसाध्यः-पार्वणस्थालीपाकादिः स यस्मिन्काले वर्तते स पाकयज्ञिकः। पूर्णमासशब्दात्प्रथमान्तादण् वक्तव्य इत्यर्थः। पूर्णो मासोऽस्यामिति। मासः- चन्द्रमाः, पूर्णश्चासौ मासश्च पूर्णमासः=पूर्वणचन्द्रः, स यस्यां तिथौ वर्तते सा पौर्णमासी तिथिरित्यर्थः। अणि `टिड्ढाणञि'ति ङीप्। यद्यपि पूर्वणो माः-चन्द्रः- पूर्वमाः। तस्येयमित्यर्थे `तस्येद'मित्यणि पौर्णमासीति सिद्धम्। तथापि ईदृश एवार्थे अयं साधुरिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.