Table of Contents

<<7-3-1 —- 7-3-3>>

7-3-2 केकयमित्रयुप्रलयानां याऽदेरियः

प्रथमावृत्तिः

TBD.

काशिका

केकय मित्रयु प्रलय इत्येतेषां यकारादेः इय इत्ययम् आदेशो भवति तद्धिते ञिति, णिति, किति च परतः। केकयस्य अपत्यम् कैकेयः। जनपदशब्दात् क्षत्रियादञ् 4-1-168 इति अञ् प्रत्ययः। मित्रयुभावेन श्लाघते मैत्रेयिकया श्लाघते। गोत्रचरणाच् छ्लाघाऽत्याकारतदवेतेषु 5-1-134 इति वुञ्। लौकिकं हि तत्र गोत्रं गृह्यते। लोके च ऋषिशब्दो गोत्रम् इत्यभिधीयते। प्रलय प्रलयातागतम् प्रालेयम् उदकम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1128 केकयमित्रयु। `तद्धितेष्वचामादे'रित्यतस्तद्दितग्रहणमनुवर्तते। `अचो ञ्णिति' `किति चे'त्यतो ञ्णितीति, कितीति च। तदाह–एषामिति। आदेशे यकारादकार उच्चारणार्थः। केकयस्यापत्यं स्त्री कैकेयी। `जनपदशब्दात्' इत्यञ्। मैत्रेयिकया श्लाघते। मित्रयोर्भाव इत्यर्थे `गोत्रचरणा'दिति वुञ्। प्रलयादागतं प्रालेयम्। ?ण्। अत्र सर्वत्र यादेरियादेश इत्युदाहरणानि। प्राप्ते इति। मित्रयोरपत्ये ढञि एयादेशे मित्रयु-एय इति स्थिते ओर्गुणं बाधित्वा यु इत्यस्य इयादेशे सति आद्गुणे मैत्रेयेय इति प्राप्ते सतीत्यर्थः।

तत्त्वबोधिनी

939 केकय। केकयस्यापत्यं स्त्री `कैकेयी'। `जनपदशब्दात्क्षत्रियादञ्'। `मैत्रेयिकया शर्?लाध्यते'। मित्रयूनां भावेनेत्यर्थः। `गोत्रचरणाच्छ्लाघात्याकारे'ति वुञ्। तत्र हि लौकिकं गोत्रं गृह्रते, लोके च `ऋषिशब्दो गोत्रमिति प्रसिद्ध'मिति काशिका। एतच्च यदा मित्रयुशब्दोऽभेदोपचारात्तदपत्यसंताने वर्तते तदा बोध्यम्, अन्यथा `मित्र यूनामि'ति बहुवचनान्तेन विग्रहो न स्यात्। प्रलयादागतं `प्रालेयम्'। इयादेशो वृदिं?ध न बाधते, `अचामादेरचो वृद्धिः,' `यादिरियादेशः' इति भिन्नविषयत्वात्, अङ्गं तूभयोर्विशेषणं न तु कार्यीति हरदत्तः। आदिवृद्धेरपीदमेव सूत्रं विधायकमस्तु, किमनेन विषयभेदविचारेणेत्यन्ये।

Satishji's सूत्र-सूचिः

TBD.