Table of Contents

<<7-2-118 —- 7-3-2>>

7-3-1 देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसाम् आत्

प्रथमावृत्तिः

TBD.

काशिका

देविका शिंशपा दित्यवाट् दीर्घसत्र श्रेयसित्येतषाम् अङ्गानाम् अचामादेः अचः स्थने वृद्धिप्रसङ्गे आकारो भवति ञिति, णिति, किति तद्धिते परतः। देविकायां भवमुदकं दाविकमुदकम्। देविकाकूले भवाः शालयः दाविकाकूलाः शालयः। पूर्वदेविका नाम प्राचां ग्रामः, तत्र भवः पूर्वदाविकः। प्राचां ग्रामनगराणाम् 7-3-14 इति उत्तरपदवृद्धिः, सापि आकार एव भवति। शिंशपा शिंशपायाः विकारः चमसः शांशपः चमसः। पलाशादिरयम्, तेन पक्षे अण्, अनुदात्तादिलक्षणो वा अञ्। शिंशपास्थले भवाः शांशपास्थलाः देवाः। पूर्वशिंशपा नाम प्राचां ग्रामः, तत्र भवः पूर्वशांशपः। दित्यवाट् दित्यौहः इदम् दात्यौहम्। दीर्घसत्र दीर्घसत्रे भवम् दार्घसत्रम्। श्रेयस् श्रेयसि भवम् श्रायसम्। वहीनरस्येद्वचनं कर्तव्यम्। वृद्धिविषये ऽचामादेः अचः स्थाने वहीनरस्य इकारादेशो भवति। वहीनरस्य अपत्यम् वैहीनरिः। केचित् तु विहीनरस्य एव वैहीनरिम् इच्छन्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1418 देविका। आदिवृद्धि प्रकरणे इदं सूत्रम्। षामिति। देविका, शिंशपा, दित्यवाहू, दीर्घसत्र क्षेयस् इत्येषामित्यर्थः। वृद्धिप्राप्ताविति। आदिवृद्धिप्राप्तौ तदपवादत्वेन आदेरच आकारः स्यादित्यर्थः। दाविकमिति। देविका नाम नदी, तस्यां भवमित्यर्थः। दाविकाकूला इति। उत्तरपदवृद्धिभ्रमनिरासाय इदमुदाहरसणम्, अस्य सूत्रस्य तदधिकारबहिर्भूतत्वादिति भावः। शांशप इति। इकारस्य आकारः, अञिवृद्धिः, शिशपाशब्दस्य पलाशादौ पाठात् पाक्षिको।ञञ्। तदभावेऽणित्यर्थः। दात्यौहमिति। दित्यवाह्शब्दात् `तस्येद'मित्यणि `वाह ऊठ्' इति संप्रसारणं, पूर्वरूपम्। `एत्येधत्यूठसु' इति वृद्धिः। इकारस्य आदिवृद्ध्यपवाद आकारः। दीर्घसूत्रमिति। `तस्येद'मित्यण्, आदेरीकारस्य आकारः। श्रायसमिति। तत्र भव इत्यणि एकारस्य आकारः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.