TBD.
यकारवकाराभ्याम् उत्तरस्य अचामादेः अचः स्थाने वृद्धिर् न भवति, ताभ्यां तु यकारवकाराभ्यां पूर्वम् ऐजागमौ भवतः ञिति, णिति, किति च तद्धिते परतः। यकारातैकारः, वकारातौकारः। व्यसने भवम् वैयसनम्। व्याकरणम् अधीते वैयाकरणः। स्वश्वस्य अपत्यम् औवश्वः। य्वाभ्याम् इति किम्? न्रर्थस्य अपत्यम् न्रार्थिः। पदान्ताभ्याम् इति किम्? यष्टिः प्रहरणम् अस्य याष्टीकः यतः छात्राः याताः। प्रतिषेधवचनम् ऐचोर् विषय प्रक्लृप्त्यर्थम्। इह मा भूत्, दाध्यश्विः, माध्वश्विः इति। नह्यत्र य्वाभ्याम् उत्तरस्य वृद्धिप्रसङ्गो ऽस्ति। वृद्धेरभावात् प्रतिषेधो ऽपि न अस्ति इत्यप्रसङ्गः। उत्तरपदवृद्धेरप्ययं प्रतिषेध इष्यते। पूर्वत्र्यलिन्दे भवः पूर्वत्रैयलिन्दः। यत्र तु उत्तरपदसम्बन्धी यण् न भवति तत्र न इष्यते प्रतिषेधः। द्वे अशीती भृतो भूतो भावी वा द्व्याशीतिकः।
TBD.
1057 पदान्ताभ्यां यकारवकाराभ्यां परस्य न वृद्धिः किंतु ताभ्यां पूर्वौ क्रमादैजावागमौ स्तः. व्याकरणमधीते वेद वा वैयाकरणः..
1082 न य्वाभ्यां। य्च वश्च य्वाविति विग्रहः। वकारादकार उच्चारणार्थं। तदाह– यकारवकाराभ्यामिति। `परस्ये'त्यध्याहारलभ्यम्। न वृद्धिरिति। `मृजेर्व- द्धि'रित्यतस्तदनुवृत्तेरिति भावः। `तु' शब्दो विशेषप्रदर्शनार्थ इत्याह– किंत्विति। ताभ्यामिति। यकारवकाराभ्यामित्यर्थः। पूर्वाविति। पूर्वावयवावित्यर्थः। तेन आगमत्वं लभ्यते। तदाह–ऐचावागमाविति। ऐच्–प्रत्याहारः। यथासङ्ख्यं यकारात्पूर्व ऐकारः, वकारात्पूर्व औकारः। वैयासकिरिति। वेदान्व्यस्यति=विवधमस्यति- -शाखाभेदेन विभजतीति वेदव्यासः। कर्मण्यण्। अत्र नामैकदेशग्रहणम्। व्यासस्यापत्यमिति विग्रहः। इञ्प्रत्ययः। प्रकृतेरकडादेशः। अत्र यकारः पदान्तः। तस्मात्परस्य आकारस्य पर्जन्यवल्लक्षणप्रवृत्त्या आदिवृद्धिः प्राप्ता न भवति, किंतु यकारात्पूर्व ऐकार आगमः। वैयसकिरिति रूपम्। स्व\उfffदास्यापत्यं सौव\उfffदिआरित्यत्र वकारात्परस्य न वृद्धिः, किन्तु ततः पूर्व औकारः। नच ऐचो वृद्द्यापवादत्वादेव वृद्ध्यभावसिद्धेस्तन्निषेधो व्यर्थ इति वाच्यं, यत्र य्वाभ्यां परस्य प्रसक्ताया वृद्धेर्निषेधस्तत्रैव ऐजागमाविति विषयनिर्देशार्थत्वात्। तेन दाध्य\उfffदिआरित्यादौ न। वृद्धिनिषेधोऽयं येन नाप्राप्तिन्यायेन आदिवृद्धेरेव। तेन द्वे अशीती भृतो `द्व्याशीतिक' इत्यत्र `सङ्ख्यायाः संवत्सरसङ्ख्यस्य च' इत्युत्तरपदवृद्धिर्भवत्येव। वरुडादयो जातिविशेषाः। वारुडकिः। नैषादकिः। चाण्डालकिः। बैम्बकिः।
905 न य्वाभ्यां। य्वाभ्यां किम्?। न अर्थो यस्य नार्थः, तस्यापत्यं नार्थिः। पदान्ताभ्यां किम्?। याज्ञिकः। ऐचो विषयप्रदर्शनाय `ने'ति निषेधोक्तिः। तेनेह न— दाघ्यश्विः, माध्वश्विः। न ह्रत्र य्वाभ्यां परस्य बृद्धिप्रसक्तिरस्ति। क्वचित्तु वृद्धिप्रसक्तिसत्त्वेऽपि नेष्यते। द्वे अशीति भृतो भूतो भावी वा व्द्याशीतिकः। वारुडकिरिति। बरिजादयो जातिविशेषाः। वकारस्यापदान्तत्वात् `न य्वाभ्या'मित्यैज्न। इत्यादीति। नैषादकिः, चाण्डालकिः, बैम्बकिः।
TBD.