Table of Contents

<<7-3-13 —- 7-3-15>>

7-3-14 प्राचां ग्रामनगराणाम्

प्रथमावृत्तिः

TBD.

काशिका

प्राचां देशे ग्रामनगराणां दिश उत्तरेषाम् अचामादेरचो वृद्धिर् भवति तद्धिते ञिति, णिति, किति च परतः। ग्रामाणाम् पूर्वेषुकामशम्यां भवः पूर्वैषुकामशमः। अपरैषुकामशमः। पूर्वकार्ष्णमृत्तिकः। अपरकार्ष्णमृत्तिकः। नगराणाम् पूर्वस्मिन् पाटलिपुत्रे भवः पूर्वपाटलिपुत्रकः। अपरपाटलिपुत्रकः। पूर्वकान्यकुब्जः। अपरकान्यकुब्जः। ग्रामत्वादेव नगराणाम् अपि ग्रहणे सिद्धे भेदेन यदुभयोरुपादानं तत् सम्बन्धभेदप्रतिपत्त्यर्थम्। दिक्पूर्वपदो हि समुदायः पूर्वेषुकामशम्यादिः ग्रामनामधेयम्। पाटलिपुत्रादिः पुनरुत्तरपदम् एव नगरम् आह। तत्र ग्रामवाचिनाम् अङ्गानाम् अवयवस्य दिक्शब्दादुत्तरस्य नगरवाचिनाम् उत्तरपदानाम् अवयवस्य च वृद्धिर् भवति इत्येवम् अभिसम्बन्धः क्रियते। इतरत्र तु दिश उत्तरेषाम् नगराणाम् इत्येव। पूर्वैषुकामशमः इत्येवम् आदिषु कृतायाम् उत्तरपदवृद्धौ एकादेशो भवति इति ज्ञापि त नेन्द्रस्य परस्य 7-3-22 इति प्रतिषेधेन।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1380 प्राचां ग्रामनगराणां। दिश इति। दिशः परे ये प्राच्यग्रामवाचिनः प्राच्यनगरवाचिनश्च तेषामवयवस्यादेर्वृद्धिः स्यादित्यर्थः। पूर्वेषु कामशम्यामिति।`दिक्संख्ये संज्ञायाम्' इति समासः। अण् ष संज्ञात्वात्। `दिक्पूर्वपदा'दिति ञ न। समुदायस्य ग्रामनामत्वेऽपि उत्तरपदस्यापि तन्नामत्वमस्तीति उत्तरपदादिवृद्धिः। नगरे इति। उदाहरणसूचनम्। पूर्वपाटलिपुत्रक इति। `पूर्वापरप्रथमे'ति समासः। `अवृद्धादपी'ति वुञ्। यद्यपि पाटलिपुत्रशब्दे उत्तरपदे आदिर्वृद्धिरेव। तथापि पूर्वपदस्य वृद्धिनिवृत्ति फलम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.