TBD.
सङ्ख्याया उत्तरपदस्य संवत्सरशब्दस्य सङ्ख्यायाश्च अचामादेरचः स्थाने वृद्धिर् भवति तद्धिते ञिति, णिति, किति च परतः। द्वौ संवत्सराबधीष्टो भृतो भूतो भावी वा द्विसांवत्सरिकः। सङ्ख्यायाः द्वे षष्टी अधीष्टो भृतो भूतो भावी वा द्विषाष्टिकः। द्विसाप्ततिकः। द्विषष्ठ्यादिशब्दो वर्षेषु संख्येयेषु वर्तमानः कालाधिकारविहितं प्रत्ययम् उत्पादयति। परिमाणान्तस्य असंज्ञाशाणयोः 7-3-17 इत्येव सिद्धे संवत्सरग्रहणम् परिमाणग्रहणे कालपरिमाणस्य अग्रहणार्थम्। तेन द्वैसमिकः, त्रैसमिकः इति उत्तरपदवृद्धिर् न भवति। द्विवर्षा, त्रिवर्षा माणविका इति अपरिमाणबिस्ताचित इति पर्युदासो न भवति।
TBD.
–
1729 ठञि त्वादिवृद्धौ प्राप्तायां–संख्यायाः संवत्सर। आदिवृद्धिप्रकरणे `उत्तरपदस्ये'त्यधिकारे इदं सूत्रम्। संवत्सरश्चसङ्ख्या चेति समाहारद्वन्द्वात् षष्ठी। संख्याया उत्तरपदस्येति। संख्यायाः परस्य संवत्सरसंख्यस्योत्तरपदस्येत्यर्थः। नन्वत्र संवत्सरग्रहणं व्यर्थं, संवत्सरस्य द्वादशमासपरिमाणतया `परिमाणान्तस्याऽसंज्ञाशाणयो'रित्येव सिद्धेरित्यत आह– परिमाणान्तस्येत्येवेति।
1336 उत्तरपदवृद्धिर्नेति। एतच्चोपलक्षणम्। `द्विवर्षा'इत्यत्र `द्विगो'रिति ङीन्बभवति। परिमाणपर्युदासेन पर्युदासाऽबावात् `अपरिमाणबिस्ताचिते'तीह निषेधप्रवृत्तेः। द्विवर्षे भृते `तमधीष्टः'इति ठञ्।`वर्षाल्लुक्च'इति लुक्। `चित्तवति नित्य'मिति नित्यलुको वक्ष्यमाणत्वादचित्तवानिह प्रत्ययार्थ इति प्रत्युदाहरति।
TBD.