Table of Contents

<<7-3-12 —- 7-3-14>>

7-3-13 दिशो ऽमद्राणाम्

प्रथमावृत्तिः

TBD.

काशिका

दिग्वाचिनः उत्तरस्य जनपदवाचिनो मद्रवर्जितस्य अचामादेरचः वृद्धिर् भवति तद्धिते ञिति, णिति, किति च परतः। पूर्वपाञ्चालकः। अपरपाञ्चालकः। दक्षिणपाञ्चालकः। पूर्ववत् तदन्तविधिः प्रत्ययश्च। दिशः इति किम्? पूर्वः पञ्चालानाम् पूर्वपञ्चालः, तत्र भवः पौर्वपञ्चालकः। आपरपञ्चालकः। अमद्राणाम् इति किम्? पौर्वमद्रः। आपरमद्रः। मद्रेभ्यो ऽञ् 4-2-108 इति अञ्प्रत्ययः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1379 दिशोऽमद्राणाम्। `अमद्राणा'मिति च्छेदः। दिग्वाचकादिति। `परस्ये'ति शेषः। जनपदवाचिन इति। मद्रवाचिभिन्नस्येत्यपि बोध्यम्। वृद्धिरिति। `आदे'रिति शेषः। पौर्वपञ्चाल इति। अत्र पूर्वशब्दः कालवाचीति भावः। पौर्वमद्र इति। `मद्रेभ्योऽञि'त्यञ्। ननु `सुसर्वार्धदिशो जनपदस्याऽमद्राणा'मित्येकसूत्रमेवास्त्वित्यत आह–योगविभाग उत्तरार्थ इति। `प्राचां ग्रामनगराणा'मित्युत्तरसूत्रे दिश एव संबन्धो यथा स्यादित्येवमर्थमित्यर्थः। एकसूत्रत्वे तु सुसर्वादिभ्यः परस्यापि मद्रशब्दस्य पर्युदासः प्रसज्येतेति इहार्थोऽपीत्येके।

तत्त्वबोधिनी

1084 दिशो। पौर्वमद्रैति। `मद्रेभ्योऽ'ञित्यञ्। पूर्वाह्णक इथि। `विभाषा पूर्वाह्णापराह्णाभ्या'मित्यस्यापवादः।

Satishji's सूत्र-सूचिः

TBD.