Table of Contents

<<4-2-107 —- 4-2-109>>

4-2-108 मद्रेभ्यो ऽञ्

प्रथमावृत्तिः

TBD.

काशिका

दिक्पूर्वपदातित्येव। दिक्पूर्वपदात् मद्रशब्दादञ् प्रत्ययो भवति शैषिकः। पौर्वमद्रः। आपरमद्रः। दिशो ऽमद्राणाम् 7-3-13 इति पर्युदासादादिवृद्धिरेव।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1310 मद्रेभ्योऽञ्। इत्येवेति। दिक्पूर्वान्मद्रशब्दादञित्यर्थः। पर्युदासादिति। उत्तरपदवृद्धेः पर्युदासे सति आदिवृद्धिरित्यर्थः। बहुवचनाज्जनपदवाचिन एव ग्रहणम्। पौर्वमद्र इति। पूर्वेषु मद्रेषु भव इत्यर्थः।

तत्त्वबोधिनी

1049 मद्रेभ्योऽञ्। बहुवचननिर्देशाज्जनपदवाची गृह्रते, न तु भद्रपर्यायः। दिशोऽमद्राणमिति। `दिग्वाचकादुत्तरपदस्य जनपदवाचिनो मद्रभिन्नस्याऽचामादेर्वृद्धिः स्याञ्ञिति णिति किति च तद्धिते'इति सूत्रार्थः। पौर्वमद्र इति। मद्रैकदेशे मद्रशब्दस्य वृत्तौ दिक्शब्देन समानाधिकरण्यात् `तद्धितार्थ'इति समासः।

Satishji's सूत्र-सूचिः

TBD.