TBD.
अङ्गस्य इति वर्तते। चङ्परे णौ यदङ्गम्, तस्य उपधाया ह्रस्वो भवति। अचीकरत्। अजीहरत्। अलीलवत्। अपीपवत्। अत्र द्विर्वचनोपधाह्रस्वत्वयोः प्राप्तयोः परत्वादुपधाह्रस्वत्वम्, तत्र कृते द्विर्वचनम्। इह तु मा भवानटिटतिति नित्यत्वाद् द्वितीयस्य द्विर्वचनं प्राप्नोति, तथा सति ह्रस्वभाविनो ऽङ्गस्य अकारस्य उपधात्वं विहितम् इति ह्रस्वो न स्यात्? नैष दोषः। ओणेः ऋदित् करणं ज्ञापकं नित्यम् अपि द्विर्वचनम् उपधाह्रस्वत्वेन बाध्यते इति। णौ इति किम्? चङ्युपधाया ह्रस्वः इत्युच्यमाने अलीलवतित्यत्र वचनसामर्थ्यातन्तरङ्गाम् अपि वृद्धिम् आदेशं च बाधित्वा ह्रस्वः स्यात्। अदीदपतित्यत्र ह्रस्वत्वेन पुको बाधः स्यात्। अपीपचतित्येवम् आदौतु नैव स्यात्। चङि इति किम्? कारयति। हारयति। उपधाया इति किम्? अचकाङ्क्षत्। अववाञ्छत्। तदेददुपधाग्रहणम् उत्तरार्थम् अवश्यं कर्तव्यं तदिह अपि ह्रस्वत्वं निवर्तयति इत्येवम् अर्थं येन न अव्यवधानम् इत्येतन्नाश्रयितव्यम् इति। उपधाह्रस्वत्वे णेर्णिच्युपसङ्ख्यानम्। वदित्वन्तं प्रयोजितवानवीवदत् वीणां परिवादकेन। यो ऽसौ णौ णिलोपस्तस्य स्थानिवद्भावेन अग्लोपित्वातङ्गस्य ह्रस्वो न प्राप्नोति। ण्याकृतिनिर्देशात् सिद्धम्।
TBD.
532 चङ्परे णौ यदङ्गं तस्योपधाया ह्रस्वः स्यात्..
155 णौ चङि। अङ्गाधिकारादाह– यदङ्गमिति। उपधायाः किम् ?। अचकाङ्क्षत्। चङि किम् ?। कारयति। णौ किम् ?। `चह्रुपधाया ह्यस्व'इत्युच्यमाने अदीदपदित्यत्र दाधातोण्र्यन्ताल्लुङि चङि दा इ अ त् इति स्थिते आकारस्य ह्यस्वे सति पुङ्न स्यात्। णावित्युक्तौ तु आकारस्य णौ परत उपधात्वाऽभावान् ह्यस्वः। `द्विर्वचनेऽची'ति निषेधस्तु न शङ्क्यः, द्वित्वनिमित्तचङ उपधया व्यवहितत्वात्। तथा च प्रकृते कम् अ त इति स्थितम्। चङि। `एकाचो द्वे प्रथमस्ये'ति `अजादेर्द्वितीयस्ये'ति चाधिकृतम्। `लिटि धातोरनभ्यासस्ये'ति सूत्रं लिटीति वर्जमनुवर्तते। तदाह–चङि पर इत्यादिना। तथा च कमित्यस्य द्वित्वे हलादिशेषे क कम् अ त इति स्थितम्।
129 उपधायाः किम् ?। अचकाङ्क्षत्।
वृत्ति: चङ्परे णौ यदङ्गं तस्योपधाया ह्रस्वः स्यात् । There is a shortening of the penultimate letter (vowel) of a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”।
Example continued from 3-1-48
कामि + अ + त
= कमि + अ + त 7-4-1
Example continued under 6-1-11