Table of Contents

<<7-2-117 —- 7-3-1>>

7-2-118 किति च

प्रथमावृत्तिः

TBD.

काशिका

किति च तद्धिते परतो ऽङ्गस्याचाम् आदेः अचः स्थाने वृद्धिर् भवति। नडादिभ्यः फक् 4-1-99 नाडायनः। चारायणः प्राग्वहतेष्ठक् 4-4-1 आक्षिकः। शालाकिकः। इति यां वृत्तौ सप्तमाध्यायस्य द्वितीयः पादः। सप्तमाध्यायस्य तृतीयः पादः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1004 किति तद्धिते चाचामादेरचो वृद्धिः स्यात्. वाहीकः. (गोरजादिप्रसङ्गे यत्). गोरपत्यादि गव्यम्..

बालमनोरमा

1060 किति च। तथेति। अचामादेरचो वृद्धिरित्यर्थः। इदं सूत्रं प्रकृतानुपय्कुत्मपि व्याख्यासोकर्यायेहोपन्यस्तम्। अपत्यादीति। आदिना समूहाद्यर्थसङ्ग्रहः। आ\उfffदापतमिति। अ\उfffदापतेरणि आदिवृद्धौ `यस्येति चे'तीकारलोपः। गाणपतमिति। अ\उfffदापत्यादिषु गणपतिशब्दः पठित इति भावः। गाणपत्य इति। गणपतिर्देवता अस्य मन्त्रस्येति विग्रहः। प्रामादिकमेवेति। प्रमादादायातमित्यर्थः। गणपतिक्षेत्रपत्यादीनाम\उfffदापत्यादिगणे पाठस्य वृत्तौ दर्शना पदादिति। पतिरुत्तरपदं यस्य तस्मादिति विग्रहः। प्राग्दीव्यतीयेष्वर्थेष्विति। `प्राग्दीव्यत' इत्यनुवृत्तेरिति बावः। अणोऽपवादैति। विशेषविहितत्वादिति भावः। दैत्य इति। दितेरपत्यमिति विग्रहः। दितेण्र्यप्रत्ययः। `चुटू' इति णकार इत्, आदिवृद्धिः, `यस्येति चे'तीकारलोपः। अदितेः, आदित्यस्य वेति। `अपत्यादी'ति शेषः। आदित्य इति। जाताद्यर्थे ण्ये आदिवृद्धौ `यस्येति चे'ति लोपे `आदित्य' इति रूपम्। आदित्यशब्दाण्ण्ये आदिवृद्धौ `यस्येति चे'ति लोपे `यणो मयः' इति पूर्वकारस्य द्वित्वे सति `हलो यमा'मित्याद्ययकारस्य लोपे द्वियकारं रूपम्। द्वित्वाऽभावे लोपे चाऽसति द्वियकारमेव। असति द्वित्वे यकारलोपे च सत्येकयकारं रूपम्। अनपत्यात्वात्, `आपत्यस्य चे'ति यलोपो न। अदितेरपत्ये ण्ये, आदित्यशब्दात्पुनरपत्ये ण्ये `आपत्यस्य चे'ति यलोपः प्राजापत्य इति। पत्युत्तरपदात् प्रजापतिशब्दाण्ण्ये आदिवृद्धौ `यस्येति चे'ति लोपः। `दैतेया' इति त्वसाध्वेव। साधुत्वश्रद्धाजाड\उfffदे तु पृषोदरादित्वात्समाधेयम्। कासिकायामिति। बाष्ये त्विदं न दृश्यत इति भावः। याम्य इति। यमस्यापत्यादीतिविग्रहः। ञाऽञाविति। ञश्च, अञ् च वक्तव्यावित्यर्थः। पार्तिवेति। पृथिव्या अपत्यादीति विग्रहः। ञप्रत्यये `चुटू' इति ञकार इत्, आदिवृद्धिः,`यस्येति चे'ति लोपः। स्त्रियामदन्तत्वाट्टाप्। पार्थिवीति। अञि `टिड्ढाण'ञिति ङीप्। ञप्रत्ययस्यैव विधौ ङीब् न स्यात्। अञ एव विधौ टाब् न स्यात्। तस्मादुभयविधिः। #एतत्सूचनायः स्त्रीलिङ्गोदाहरणमिति बोध्यम्। देवादिति। देवशब्दाद्यञ्, अञ् च प्रत्ययौ प्राग्दीव्यतीयेष्वर्थेषु वक्तव्यावित्यर्थः। दैव्यं दैवमिति। `देवस्यापत्यादी'ति विग्रहः। यञि अञि च आदिवृद्धौ `यस्येति चे'ति लोपः। सकारान्तमव्ययम्। तस्मात्प्राग्दीव्यतीयेष्वर्थेषु यञ्, प्रकृतेष्टिलोपश्चेति वक्तव्यमित्यर्थः। बाह्र इति। बहिर्भव इत्यादि विग्रहः। यञि टिलोपे आदिवृद्धिः। `अव्ययानां भमात्रे टिलोप' इत्यस्याऽनित्यत्वज्ञापनार्थमिह टिलोपविधानम्। तेन आराद्भव आरातीय इत्यादि सिध्यति।\र्\नीकक् चेति। बहिष ईकक् च स्यात्, प्रकृतेष्टिलोपश्चेति वक्तव्यमित्यर्थः। बाहीक इति। बहिष ईककि टिलोपे `किति चे'त्यादिवृद्धिः। प्राग्दीव्यतीयेष्वर्तेषु वाच्य इत्यर्थः। अणोऽपवादः। अ\उfffदात्थाम इति। अ\उfffदास्येव स्थामा=स्थितिर्यस्येति विग्रहः। अ\उfffदात्थाम्नोऽपत्यं, तत्र जात इत्यादिर्विग्रहः। प्रत्ययविधित्वेऽपि भाष्ये उदाहरणात्तदन्तविधिः। अ\उfffदास्थामन्शब्दादकारप्रत्यये `नस्तद्धिते' इति टिलोपः। अणि तु आदि वृद्धिः स्यात्। पृषोदकादित्वादिति। भवार्थे तु लुग्वाच्य इति। `अकारप्रत्ययस्ये'ति शेषः। इत्यर्थः। बाह्वादीञ इति। बाह्वादित्वप्रयुक्तस्य इञोऽपवाद इत्यर्थः। उडुलोमा इति। उडूनि नक्षत्राणीव लोमानि यस्य स उडुलोमा, तस्यापत्यमिति विग्रहः लोम्नोऽपत्ययोगाऽसंभवात्प्रत्ययविधित्वेऽपि तदन्तविधिः। अकारप्रत्यये सति `नस्यतद्धिते' इति टिलोपः। औडुलोमिरिति। उडुलोम्नोऽपत्यमिति विग्रहः। अत्रापत्यबहुत्वाऽभावादकारप्रत्ययो न। किंतु बाह्वादित्वादिञि टिलोप इति भावः।

पूर्ववार्तिकादपत्यग्रहणानुवृत्तिनिवृत्त्यर्थं `सर्वत्र'ग्रहणम्। अपत्ये तदन्येषु च प्राग्दीव्यतीयेष्वर्थेषु गोशब्दादजादिप्रत्ययप्रसङ्गे सति यत्प्रत्ययो वाच्य इत्यर्थः। गव्यमिति। गवि भवं, गोरागतमित्यादि विग्रहः। अणपवादो यत्। गोरूप्यं गोमयमिति। `हेतुमनुष्येभ्योऽन्यतरस्या'मिति रूप्य इत्यर्थः। `मयड्वैतयो'रिति रूप्यमयटौ। हलादित्वान्नैतयोर्यत्प्रत्ययो बाधक इति भावः।

तत्त्वबोधिनी

886 किति च। `वाहीकः' इत्याद्यर्थमपीदं सुगमव्याख्यानायत्रैवोपन्यस्तम्। `अचामादे'रिति निर्दिष्टस्थानिकत्वादिक्परिभाषाऽत्र नोपतिष्ठत इत्याशयेनोदाहरति– आ\उfffदापतिमित्यादि। प्रामादिकमेवेति। एतच्च हरदत्तग्रन्थे स्थितम्। यदि तु देवतार्थकाऽण्णन्ताच्चातुर्वण्र्यादेराकृतिगणत्वात्ष्यञिति व्याख्यायते तदा निर्दुष्ट एवायं प्रयोगः। अ\उfffदापति गणपति राष्ट्रपति कुलपति गृहपति पशुपति क्षेत्रपतीत्य\उfffदापत्यादिः।

Satishji's सूत्र-सूचिः

TBD.