Table of Contents

<<7-2-97 —- 7-2-99>>

7-2-98 प्रत्ययौत्तरपदयोश् च

प्रथमावृत्तिः

TBD.

काशिका

एकवचने इत्यनुवर्तते। प्रत्यये उत्तरपदे च परत एकवचने वर्तमानयोः युस्मदस्मदोर् मपर्यन्तस्य त्व म इत्येतावादेशौ भवतः। तवायं त्वदीयः। मदीयः। अतिशयेन त्वम् त्वत्तरः। मत्तरः। त्वाम् इच्छति त्वद्यति। मद्यति। त्वमिवाचरति त्वद्यते। मद्यते। उत्तरपदे तव पुत्रः त्वत्पुत्रः। मत्पुत्रः। त्वं नाथो ऽस्य त्वन्नाथः। मन्नथः। एकवचने इत्येव, युष्माकमिदम् युष्मदीयम्। अस्मदीयम्। युष्माकं पुत्रः, अस्माकं पुत्रः युष्मत्पुत्रः, अस्मत्पुत्रः। विभक्तौ इत्यधिकारात् पूर्वयोगो विभक्तावेव। ततो ऽन्यत्र अपि प्रत्यये उत्तरपदे च यथा स्यातित्ययम् आरम्भः। ननु चात्राप्यन्तर्वर्तिनी विभक्तिरस्ति, तस्याम् एव आदेशौ भविस्यतः? न एवं शक्यम्, लुका तस्या भवितव्यम्। बहिरङ्गो लुक्, अन्तरङ्गौ आदेशौ, प्रथमं तौ भविष्यतः? एतदेव तर्हि आदेशवचनं ज्ञापकम् अन्तरङ्गानपि विधीन् बहिरङ्गो ऽपि लुक् बाधते इति। तेन गोमान् प्रियो ऽस्य गोमत्प्रियः इत्येवम् आदौ नुमादि लुका बाध्यते। एवं च सति त्वाहौ सौ 7-2-94 इत्येवम् आदयो ऽपि प्रत्ययोत्तर्पदयोरादेशा न भवन्ति। त्वं प्रधानम् एषां त्वत्प्रधानाः। मत्प्रधानाः। यूयं पुत्रा अस्य युष्मत्पुत्रः। अस्मत्पुत्रः तुभ्यं हितं त्वद्धितम्। मद्धितम्। तव पुत्रः त्वत्पुत्रः। मत्पुत्रः। अथ किमर्थ्म् एषां त्वाहादीनां बाधनार्थम् एतन् न विज्ञायते? लक्ष्यस्थित्यपेक्षया। ज्ञाप्कार्थे ह्येतस्मिन् बहुतरमिष्टं सङ्गृह्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1085 मपर्यन्तयोरेतयोरेकार्थवाचिनोस्त्वमौ स्तः प्रत्यये उत्तरपदे च परतः. त्वदीयः. मदीयः. त्वत्पुत्रः. मत्पुत्रः..

बालमनोरमा

1353 प्रत्ययोत्तरपदयोश्च। साप्तमिकमिदम्। `त्वमावेकवचने' इत्यनुवर्तते। `युष्मदस्मदोरनादेशे' इत्यतो युष्मदस्मदोरित्यनुवर्तते। मपर्यन्तस्येत्यधिकृतं। तदाह–मपर्यन्तयोरित्यादि। त्वदीयः मदीय इति। छे सुब्लुकि तवममयोर्निवृत्तौ मपर्यन्तयोः त्वदिति मदिति च आदेशौ। विभक्तिपरकत्वाऽभावान्न शेषे लोपः। उत्तरपदे तु परे त्वत्पुत्रो मत्पुत्र इत्युदाहरणम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.