TBD.
युष्मदस्मदोः मपर्यन्तस्य तव मम इत्येतावादेशौ भवतो ङसि परतः। तव। मम। परमतव। परममम। अतितव। अतिमम।
TBD.
328 अनयोर्मपर्यन्तस्य तवममौ स्तो ङसि..
अथ षष्ठी। तवममौ ङसि। `युष्मदस्मदोरनादेशे' इत्यतो `युष्मदस्मदो'रित्यनुवर्तते। मपर्यन्तस्येत्यधिकृतं। तदाह-अनयोरिति। युष्मदस्मदोरित्यर्थः। `त्वमावेकवचने' इत्यस्यापवादः।
–
TBD.