Table of Contents

<<7-2-85 —- 7-2-87>>

7-2-86 युष्मदस्मदोरनादेशे

प्रथमावृत्तिः

TBD.

काशिका

युष्मदस्मदित्येतयोः अनादेशे विभक्तौ परतः आकारादेशो भवति। युष्माभिः। अस्माभिः। युष्मासु। अस्मासु। अनादेशे इति किम्? युष्मत्। अस्मत्। हलि इत्यधिकारादप्यत्र न स्यात्। उत्तरत्र तु अनादेशग्रहणेन प्रयोजनम् यो ऽचि 7-2-89 इति, तदिहैव क्रियते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

323 अनयोरात्स्यादनादेशे हलादौ विभक्तौ. युवाभ्याम्. आवाभ्याम्. युष्माभिः. अस्माभिः..

बालमनोरमा

युष्मदस्मदोरनादेशे। `अष्टन आ विभक्तौ' इत्यत आ इति विभक्ताविति चानुवर्तते। `रायो हली'त्यतो हलीत्यनुवृत्तं विभक्तिविशेषणम्। तदादिविधिः। तदाह-अनयोरिति। युष्मदस्मदोरन्त्यस्येत्यर्थः। वस्तुतस्तु हलीति नानुवर्तनीयम्। `योऽचि' इत्यजादौ यत्वविधानेन परिशेषादेव तत्सिद्धेः। युवाभ्याम् आवाभ्यामिति। युष्मद् भ्याम्, अस्मद् भ्यामिति स्थिते युवावादेशयोर्दकारस्य आत्वे सवर्णदीर्घ इति भावः। ?त्र हलीत्यनुवृत्तौ `योऽची'त्यज्ग्रहणं मास्तु। हलादावात्वस्य विशेषविहितत्वादेव यत्वनिवृत्तिसिद्धेरिति भाष्ये स्पष्टम्। युष्माभिः अस्माभिरिति। `युष्मदस्मदोरनादेशे' इत्यात्वे सवर्णदीर्घ इति भावः। अथ चतुर्थी। युष्मद् ए, अस्मद् ए इति स्थितौ `त्वमावेकवचने' इति प्राप्ते-।

तत्त्वबोधिनी

350 युष्मदस्मदोरमादेशे। आदेशे किम्?युष्मभ्यम्। न चाऽभ्यम्पक्षे आदेशो हलादिर्नत्यनादेशग्रहणं त्यक्तु शक्यमिति वाच्यं, `योऽचीच्यच्त्राऽनुवृत्त्यर्थं तस्यावश्यकत्वात्। हलादौ परे इति। `योऽची'त्यज्ग्रहणात्परिशेषसिद्धमिदम्, `रायौ हली'त्यतोऽनुवृत्त्या लब्धं वा।

Satishji's सूत्र-सूचिः

TBD.