Table of Contents

<<7-2-86 —- 7-2-88>>

7-2-87 द्वितीयायां च

प्रथमावृत्तिः

TBD.

काशिका

द्वितीयायां च परतः युष्मदस्मदोः आकारादेशो भवति। त्वाम्। माम्। युवाम्। आवाम्। युष्मान्। अस्मान्। आदेशार्थं वचनम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

320 अनयोरात्स्यात्. त्वाम्. माम्..

बालमनोरमा

त्व अद् अम्, म अद् अम् इति स्थिते-। द्वितीयायां च। शेषपूरणेन सूत्रं व्याचष्टे– युष्मदस्मदोरिति। `युष्मदस्मदोरनादेशे' इत्यतस्तदनुवृत्तेरिति भावः। आकार इति। `अष्टन आ विभक्तौ' इत्यतस्तदनुवृत्तेरिति भावः। तथाच द्वितीयाविभक्तौ परतो युष्मदस्मदोराकारः स्यादिति फलति। `अलोऽन्त्यस्ये'ति दकारस्य भवति। त्व अ आ अम्, म अ आ अमिति स्थिते पररूपे, सवर्णदीर्घे, अमि पूर्वरूपे च परिनिष्ठितं रूपमाह–त्वां मामिति। युवाम्। आवामिति। पूर्ववत्। `द्वितीयायां चे'त्यात्वमिति विशेषः। प्रथमायाश्चे'त्यस्याऽत्राप्रवृत्तेः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.