Table of Contents

<<7-2-40 —- 7-2-42>>

7-2-41 इट् सनि वा

प्रथमावृत्तिः

TBD.

काशिका

वृ\उ0304तः सनि वा इडागमो भवति। वुवूर्षते, विवरिषते, विवरीषते। प्रावुवूर्षति, प्राविवरिषति, प्राविवरीषति। ऋ\उ0304कारान्तेभ्यः तितीर्षति, तितरिषति, तितरीषति। आतिस्तीर्षते, आतिस्तरिषते, आतिस्तरीषते। सनि ग्रहगुहोश्च 7-2-12 इति इट्प्रतिषेधे प्राप्ते पक्षे इडागमो विधीयते। इटश्च वृ\उ0304तो वा 7-2-38 इति पक्षे दीर्घः। चिकीर्षति, जिहीर्षति इत्यत्र उपदेशाधिकारात् लाक्षणिकत्वाच् च इडागमो न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

453 इट् सनि वा। `वतो वे'त्यतो `वृ?त' इत्यनुवर्तते इति मत्वाह- - वृङ्वृञ्भ्यामित्यादि। `सनि ग्रहगुहोश्चे'त्यस्यापवादः। चिकीर्षतीत्यादौ `अज्झने'ति दीर्घ कृते सनि नेदं प्रवर्तते, `एकाच उपदेशे' इत्यत उपदेशे इत्यनुवर्त्त्य उपदेशे ऋकारान्तादिति व्याख्यानात्। तितरिषति– तितरीषतीति। तृ?धातोः सनि लटि `वृ?तो वे'ति दीर्घः। इडभावे त्वाह- तितीर्षतीति। `इको झ'लिति कित्त्वाद्गुणाऽभावे `तृ? इत्यस्य ऋकारस्य इत्त्वे रपरत्वे `हलि चे'ति दीर्घ इति भावः। विवरिषतीति। वृञ्धातोः सनि इटि `वृ?तो वे'ति दीर्गविकल्पः। इडभावे त्वाह- - वुवूर्पतीति। उदोष्ठ\उfffदे'त्युत्वे रपरत्वे `हलि चे'ति दीर्घः। वुवूर्षते इति। ङित्त्वादात्मनेपदेम्। दुर्ध्वूर्षतीति। `द्वृ कौटिल्ये'`अज्झने'ति दीर्घः। `उदोष्ठ\उfffदे त्युत्वे, `हलि चे'ति दीर्घ इति भावः।

तत्त्वबोधिनी

393 इट्सनि वा। चिकीर्षतीत्यादौ `अज्झनगमा'मिति दीर्घे कृते नेदं प्रवर्तते, `एकाच उपदेशे' इत्यत उपदेश इत्यनुवर्त्त्य , उपदेशे ऋकारान्तादिति व्याख्यानात्। अत एवेटं विनैवोदाहरति– दुध्वूर्षतीति। `ध्वृ कौटिल्यै'। `अज्झने'ति दीर्घः। `#उदोष्ठ\उfffद्पूर्वस्ये'त्युत्वं। रपरत्वं। `हलि चे'ति दीर्घः।

Satishji's सूत्र-सूचिः

वृत्तिः वृङ्वृञ्भ्यामॄदन्ताच्च सन इड्वा स्यात् । The affix सन् optionally takes the augment इट् when it follows the verbal root √वृ (वृङ् सम्भक्तौ ९. ४५) or √वृ (वृञ् वरणे ५. ८) or any verbal root ending in a ॠकार: (in उपदेशः।)

उदाहरणम् – तितीर्षति/तितरिषति/तितरीषति is a desiderative form derived from √तॄ (तॄ प्लवनतरणयोः १. ११२४).
The विवक्षा is लँट्, कर्तरि, सन्नन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

“इट्”-अभावे
तॄ + सन् 3-1-7
= तॄ + स 1-3-3, 1-3-9. Note: By 7-2-41 the “इट्”-आगमः by 7-2-35 (which would have been completely prohibited by 7-2-12) is optional here. Let us first consider the case when the optional “इट्”-आगमः is not used.
Note: The affix “स” is a कित् here by 1-2-9. Hence 1-1-5 stops 7-3-84 from applying.
= तिर् + स 7-1-100, 1-1-51
= तिर् स् तिर् स 6-1-9
= ति तिर् स 7-4-60
= ति तीर् स 8-2-77
= तितीर्ष 8-3-59
“तितीर्ष” gets धातु-सञ्ज्ञा by 3-1-32

Now let us consider the case when the optional “इट्”-आगमः is used.
“इट्”-पक्षे
तॄ + सन् 3-1-7
= तॄ + स 1-3-3, 1-3-9
= तॄ + इट् स 7-2-41, 1-1-46
= तॄ + इस 1-3-3, 1-3-9. Note: 1-2-9 does not apply here because the affix “इस” does not begin with a झल् letter.
= तर् + इस 7-3-84, 1-1-51
= तर् तर् + इस 6-1-9
= त तर् + इस 7-4-60
= ति तर् + इस 7-4-79
= तितरिष 8-3-59
“तितरिष” gets the धातु-सञ्ज्ञा by 3-1-32

Now finally let us consider the case when the optional “इट्”-आगमः is optionally elongated.
तॄ + सन् 3-1-7
= तॄ + स 1-3-3, 1-3-9
= तॄ + इट् स 7-2-41, 1-1-46
= तॄ + इस 1-3-3, 1-3-9. Note: 1-2-9 does not apply here because the affix “इस” does not begin with a झल् letter.
= तॄ + ईस 7-2-38
= तर् + ईस 7-3-84, 1-1-51
= तर् तर् + ईस 6-1-9
= त तर् + ईस 7-4-60
= ति तर् + ईस 7-4-79
= तितरीष 8-3-59
“तितरीष” gets धातु-सञ्ज्ञा by 3-1-32

तितीर्ष/तितरिष/तितरीष + लँट् 3-2-123 = तितीर्षति/तितरिषति/तितरीषति 1-3-62, 1-3-78