Table of Contents

<<7-2-54 —- 7-2-56>>

7-2-55 जृ\उ0304व्रश्च्योः क्त्वि

प्रथमावृत्तिः

TBD.

काशिका

जृ\उ0304 व्रश्चि इत्येतयोः क्त्वाप्रत्यये इडागमो भवति। जरित्वा, जरीत्वा। व्रश्चित्वा। जृ\उ0304 इत्येतस्य श्र्युकः किति 7-2-11 इति प्रतिषेधः प्राप्तः, व्रश्चेरुदित्वाद् विकल्पः। क्त्वाग्रहणं निष्ठानिवृत्त्यर्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1595 जृ?व्रश्च्योः। जृ? इत्यस्मात् `श्र्युकः किती'ति ति निषेधे प्राप्ते व्रश्चेरूदित्वाद्विकल्पे प्राप्ते वचनमिदम्। जरीत्वेति। `वृ?तो वा'इति इटो वा दीर्घः। व्रश्चित्वेति। इह `न क्त्वा से'डिति कित्त्वनिषेधात् `ग्रहिज्ये'ति संप्रसारणं न।

Satishji's सूत्र-सूचिः

TBD.