Table of Contents

<<7-2-50 —- 7-2-52>>

7-2-51 पूङश् च

प्रथमावृत्तिः

TBD.

काशिका

पूङश्च क्त्वानिष्ठयोर् वा इडागमो भवति। पूर्वा, पवित्वा। सोमो ऽतिपूतः, सोमो ऽतिपवितः। पूतवान्, पवितवान्। श्र्युकः किति 7-2-11 इति प्रतिषेधे प्राप्ते विकल्पो विधीयते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

857 पूङश्च। क्त्वानिष्ठयोरिति। `क्लिशः क्त्वनिष्ठयो'रित्यतस्तदनुवृत्तेरिति भावः। इड्वेति। `स्वरतिसूती'त्यतो वाग्रहणस्य , `इण्निष्ठाया'मित्यत इडित्यस्य चाऽनुवृत्तेरिति भावः। `श्र्युकः' इति निषेधे प्राप्ते विकल्पोऽयम्।

तत्त्वबोधिनी

702 पूङश्च। `श्र्युकः किती'ति निषेधे प्राप्ते वचनम्।

Satishji's सूत्र-सूचिः

TBD.