Table of Contents

<<7-2-49 —- 7-2-51>>

7-2-50 क्लिशः क्त्वानिष्ठयोः

प्रथमावृत्तिः

TBD.

काशिका

क्लिशः क्त्वानिष्ठ्योः वा इडागमो भवति। क्लिष्ट्वा, क्लिशित्वा। क्लिष्टः, क्लिशितः। क्लिष्टवान्, क्लिशितवान्। क्लिशू विबाधने इत्यस्य क्त्वायां विकल्पः सिद्ध एव निष्ठायां तु यस्य विभाषा 7-2-15 इति प्रतिषेधः प्राप्नोति। क्लिश उपतापे इत्येतस्य तु क्त्वायां निष्ठायां च नित्यम् इडागमः प्राप्नोति, तदर्थं क्त्वाग्रहणं क्रियते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

856 क्लिशः क्त्वानिष्ठयोः। `इड्वा स्या'दिति शेषः। `स्वरति सूती'त्यतो वेत्यनुवृत्तेरिति भावः। नित्यं प्राप्त इति। `आद्र्धधातुकस्येड्वलादे'रित्यनेनेति भावः। विकल्पे सिद्ध इति। ऊदित्त्वादिति भावः। निष्ठायां निषेधे प्राप्ते इति। `यस्य विभाषे'त्यनेनेति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.