Table of Contents

<<7-2-48 —- 7-2-50>>

7-2-49 सनि इवन्तर्धभ्रस्जदम्भुश्रिस्वृयूउर्णुभरज्ञपिसनाम्

प्रथमावृत्तिः

TBD.

काशिका

इवन्तानां धातूनाम्, ऋधु भ्रस्ज दम्भु श्रि स्वृ यु ऊर्णु भर ज्ञपि सनित्येतेषां च सनि वा इडागमो भवति। इवन्तानाम् दिदेविषति, दुद्यूषति। सिसेविषति, सुस्यूषति। ऋधु अर्दिधिषति, ईर्त्सति। भ्रस्ज बिभ्रज्जिषति, बिभ्रक्षति, बिभर्ज्जिषति, बिभर्क्षति। दम्भु दिदम्भिषति, धिप्सति, धीप्सति। श्रि उच्छिश्रयिषति, उच्छिश्रीषति। स्वृ सिस्वरिषति, सुस्वूर्षति। यु यियविषति, युयूषति। ऊर्णु प्रोर्णुनविषति, प्रोर्णुनविषति, प्रोर्णुनूषति। भर इति भृञित्येतस्य भौवादिकस्य ग्रहणम्, शपा निर्देशात्। विभरिषति, बुभूर्षति। ज्ञपि जिज्ञपयिषति, ज्ञीप्सटि। सन् सिसनिषति, सिषासति। केचिदत्र भरज्ञपिसनितनिपतिदरिद्राणाम् इति पठन्ति। तनि तितनिषति, तितंसति, तितांसति। पति पिपतिषति, पित्सति। दरिद्रा दिदरिद्रिषति, दिदरिद्रासति। सनि इति किम्? देविता। भ्रष्टा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

446 सनीवन्तर्ध। सनि इवन्तेति च्छेतः। इवन्त, ऋध, भ्रस्ज, दन्भु, श्रि, स्वृ, यु, ऊर्णु, भर , ज्ञपि , सन्, – एषां द्वन्द्वः। इव् अन्ते येषां ते इवन्ताः। `स्वरती'त्यतो वेति, `इण्निष्ठाया'मित्यत इडिति चानुवर्तते। तदाह – इवन्तेब्य इत्यादि। वन्तस्य दिव्?धातोरुदाहरिष्यन्नाह– इडभावे इति। वस्येति। वकारस्येत्यर्थः। यणिति। `कारादिकारस्ये'ति शेषः। द्वित्वमिति। `द्यु इत्यस्ये'ति शेषः। दुद्यूषतीति। `अज्झने'ति दीर्घः। इट्पक्षे आह–दिदेविषतीति। अझलादित्वान्न सनः कित्त्वम्, अतो नोठ्, किन्तु लघूपधगुण इति भावः। इवन्तस्योदाहरणान्तरं सिवुधातोः सुस्यूषतीति वक्ष्यते। तत्र द्वितीयस्य षत्वमाशङ्क्य आह- - स्तौतिण्योरिति। सुस्युषतीति। सिवुधातोः सनि इडभावे दुद्यूषतीतिवद्रूपम्। इट्पक्षे आह – सिसेविषतीति। ऋध्?धातोः सनि ईत्र्सतीति रूपं वक्ष्यन्नाह–

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.