Table of Contents

<<7-2-39 —- 7-2-41>>

7-2-40 सिचि च परस्मैपदेषु

प्रथमावृत्तिः

TBD.

काशिका

परस्मैपदपरे सिचि वॄत उत्तरस्य इटो दीर्घः न भवति। प्रावारिष्टाम्। प्रावारिषुः। अतारिष्टाम्। अतारिषुः। आस्तारिष्टाम्। आस्तारिषुः। परस्मैपदेषु इति किम्? प्रावरिष्ट, प्रावरीष्ट।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

619 अत्र इटो न दीर्घः. अपारिष्टाम्. अपरिष्यत्, अपरीष्यत्.. ओहाक् त्यागे.. 5.. जहाति..

बालमनोरमा

तत्त्वबोधिनी

201 सिचि च। `न लिङी'त्यतो नेत्यनुवर्तनादाह–इटो दीर्घो नेति।

Satishji's सूत्र-सूचिः

वृत्ति: अत्र इटो न दीर्घः । The optional elongation (prescribed by 7-2-38 वॄतो वा) of the augment इट् does not take place when followed by the affix “सिँच्” which itself is followed by a परस्मैपदम् affix.

उदाहरणम् – अपारिष्टाम् derived from √पॄ (पॄ पालनपूरणयोः ३. ४). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, द्विवचनम्।

पॄ + लुँङ् 3-2-110
= पॄ + ल् 1-3-2, 1-3-3, 1-3-9
= पॄ + तस् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= पॄ + ताम् 3-4-101, 1-1-55, 1-3-4
= पॄ + च्लि + ताम् 3-1-43
= पॄ + सिँच् + ताम् 3-1-44
= पॄ + स् + ताम् 1-3-2, 1-3-3, 1-3-9
= पॄ + इट् स् + ताम् 7-2-35, 1-1-46
= पॄ + इ स् + ताम् 1-3-3, 1-3-9
Note: 7-2-40 stops the optional elongation of “इट्”-आगमः which would have been done by 7-2-38.
= पार् + इ स् + ताम् 7-2-1, 1-1-51
= अट् पार् + इ स् + ताम् 6-4-71, 1-1-46
= अ पार् + इ स् + ताम् 1-3-3, 1-3-9
= अ पार् + इ ष् + ताम् 8-3-59
= अपारिष्टाम् 8-4-41