विशस्तृशंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरूत्रीरुज्ज्वलितिक्षरितिक्षमितिवमित्यमिति इति च
TBD.
ग्रसित स्कभित स्तभित उत्तभित चत्त विकस्त विशस्तृ शंस्तृ शास्तृ तरुतृ तरूतृ वरुतृ वरूतृ वरूत्रीः उज्ज्वलिति क्षरिति क्षमिति वमिति अमिति इत्येतानि छन्दसि विषये निपात्यन्ते। तत्र ग्रसित स्कभित स्तभित उत्तभित इति ग्रसु स्कम्भु स्तम्भु इत्येतेषाम् उदित्त्वान् निष्ठायाम् इट्प्रतिषेधे प्राप्ते इडागमो निपात्यते। ग्रसितं वा एतत् सोमस्य। ग्रस्तम् इति भाषायाम्। स्कभित विष्कभिते अजरे। विष्कब्ध इति भाषायाम्। स्तभित येन स्वः स्तभितम्। स्तब्धम् इति भाषायाम्। उत्तभित सत्येनोत्तभिता भूमिः। उत्तब्धा इति भाषायाम्। उत्तभित इति उत्पूर्वस्य निपातसामर्थ्यादन्योपसर्गपूर्वः स्तभितशब्दो न भवति। चत्त, विकस्त इति चतेः कसेश्च विपूर्वस्य निष्ठायाम् इडभावो निपात्यते। चत्ता वर्षेण विद्युत् चतिता इति भाषायाम्। विकस्त उत्तानाया हृदयं यद् विकस्तम्। विकसितम् इति भाषायाम्। निपातनं बहुत्वापेक्षम्, विकस्ताः इति बहुवचनं कृतम्। अपरेषु तु निपातनेषु प्रत्येकं विभक्तिनिर्देशः। विशस्तृ शंस्तृ शास्तृ इति शसेर् विपूर्वस्य शंसेः शासेश्च तृचि इडभावो निपात्यते। विशस्तृ एकस्त्वष्टुरश्वस्याविशस्ता। विशसिता इति भाषायाम्। शंस्तृ उत शंस्ता सुविप्रः। शंसिता इति भाषायाम्। शास्तृ प्रशास्ता। प्रशासितम् इति भाषायाम्। तरुतृ तरूतृ वरुतृ वरूतृ वरूत्रीः इति तरतेः वृङ्वृञोश्च तृचि उटूटित्येतावागमौ निपात्येते। तरुतारं रथानाम्, तरूतारम्। तरितारम्, तरीतारम् इति भाषायाम्। वरुतारं रथानाम्, वरूतारं रथानाम्। वरितारम्, वरीतारम् इति भाषायाम्। वरुत्री त्वा देवी विश्वदेव्यवती। जसि पूर्वसवर्णोच्चारणं प्रयोगदर्शनार्थम्। अतन्त्रं चैतत्। इदम् अपि हि भवति अहोरात्राणि वै वरूत्रयः इति। छान्दसिकमत्र ह्रस्वत्वम्। प्रपञ्चार्थम् एव च ङीबन्तस्य निपातनम्। वरूतृशब्दो हि निपातितः, तत एव ङीपि सति सिद्धो वरूत्रीशब्दः। उज्ज्वलिति क्षरिति क्षमिति वमिति अमिति इति च ज्वलतेरुत्पूर्वस्य क्षर क्षम वम इत्येतेषां च तिपि शपः इकारादेशो निपात्यते, शपो लुग्वा, इडागमः। अग्निरुज्ज्वलिति। उज्ज्वलति इति भाषायाम्। क्षरिति स्तोकं क्षरिति। क्षरति इति भाषायाम्। क्षमिति स्तोमं क्षमिति। क्षमति इति भाषायाम्। वमिति यः सोमं वमिति। वमति इति भाषायाम्। अमिति अभ्यमिति वरुणः। अभ्यमति इति भाषायाम्। इतिकरणं प्रदर्शनार्थम् तेन क्वचितीकारो भावति, रविमभ्यमीति वरुणः इत्यपि हि वेदे पठ्यते।
TBD.
–
–
–
TBD.