Table of Contents

<<7-2-20 —- 7-2-22>>

7-2-21 प्रभौ परिवृढः

प्रथमावृत्तिः

TBD.

काशिका

परिवृढ इति निपात्यते प्रभुश्चेद् भवति। परिवृढः कुटुम्बी। पूर्वेण तुल्यम् एतत्। वृंहेर् निपातनम्। वृहिश्च यदि प्रकृतियन्तरम् अस्ति तस्य अपि तदेव सर्वम्। हलोपनिपातनस्य च तदेव प्रयोजनम्। परिव्रढयति। परिव्रढ्य्य गतः। पारिवृढी कन्या। परिवृढमाचष्टे इति विगृह्य वृढशब्दादेव णिजुत्य्पद्यते। संग्रामयतेरेव सोपसर्गाण् णिजुत्पत्तिरिष्यते न अन्यस्मातिति। तथा सति परिव्रढयति इति तिङ्ङतिङः 8-2-28 इति निघातः। परिव्रढय्य इत्यत्र परिशब्दस्य क्त्वाप्रत्ययान्तेन समासे सति ल्यबादेशः सिद्धो भवति। प्रभौ इति किम्? परिवृंहितम्। परिवृहितम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

868 प्रभौ परिबृढः। प्राग्वदिति। तकारढत्वसय् हलोपस्य चेत्यर्थः।

तत्त्वबोधिनी

713 प्रभौ। निपातनमिति। हलोपे प्रयोजनमपि व्रढिमा परिव्रढय्येत्यादिसिदिधरिति प्राग्वदेव बोध्यम्।

Satishji's सूत्र-सूचिः

TBD.