Table of Contents

<<7-2-20 —- 7-2-22>>

7-2-21 प्रभौ परिवृढः

प्रथमावृत्तिः

TBD.

काशिका

परिवृढ इति निपात्यते प्रभुश्चेद् भवति। परिवृढः कुटुम्बी। पूर्वेण तुल्यम् एतत्। वृंहेर् निपातनम्। वृहिश्च यदि प्रकृतियन्तरम् अस्ति तस्य अपि तदेव सर्वम्। हलोपनिपातनस्य च तदेव प्रयोजनम्। परिव्रढयति। परिव्रढ्य्य गतः। पारिवृढी कन्या। परिवृढमाचष्टे इति विगृह्य वृढशब्दादेव णिजुत्य्पद्यते। संग्रामयतेरेव सोपसर्गाण् णिजुत्पत्तिरिष्यते न अन्यस्मातिति। तथा सति परिव्रढयति इति तिङ्ङतिङः 8-2-28 इति निघातः। परिव्रढय्य इत्यत्र परिशब्दस्य क्त्वाप्रत्ययान्तेन समासे सति ल्यबादेशः सिद्धो भवति। प्रभौ इति किम्? परिवृंहितम्। परिवृहितम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

868 प्रभौ परिबृढः। प्राग्वदिति। तकारढत्वसय् हलोपस्य चेत्यर्थः।

तत्त्वबोधिनी

713 प्रभौ। निपातनमिति। हलोपे प्रयोजनमपि व्रढिमा परिव्रढय्येत्यादिसिदिधरिति प्राग्वदेव बोध्यम्।

Satishji's सूत्र-सूचिः

TBD.