Table of Contents

<<7-2-21 —- 7-2-23>>

7-2-22 कृच्छ्रगहनयोः कषः

प्रथमावृत्तिः

TBD.

काशिका

कृच्छ्र गहन इत्येतयोरर्थयोः कषेर् धातोः निष्ठायाम् इडागमो न भवति। कष्टो ऽग्निः। कष्टं व्याकरणम्। ततो ऽपि कष्टतराणि सामानि। कृच्छ्रं दुःखम्, तत्कारणम् अप्यग्न्यादिकं कृच्छ्रम् इत्युच्यते। गहने कष्टानि वनानि। कष्टाः पर्वताः। कृच्छ्रगहनयोः इति किम्? कषितं सुवर्णम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

869 कृच्छ्रगहनयोः। कृच्छ्रशब्दो दुःखे, तत्कारणे च वर्तते। कष्टं दुःखं, तत्कारणं चेति। `स्यात्कष्टं कृच्छ्रमाभील'मित्यमरकोशवाक्यम्। दुःखकारणे उदाहरति– कष्टो मोह इति। गहने उदाहरति– कष्टं शास्त्रमिति। गहनशब्दं विवृणोति– दुरवगाहमिति।

तत्त्वबोधिनी

714 कृच्छ्रगहनयोः। कृच्छ्रं दुःखं, तत्कारणं च लक्षणया गृह्रते। कषतिहिंसार्थः। कष्टो मोह इति। दुःखहेतुरित्यर्थः।

Satishji's सूत्र-सूचिः

TBD.