Table of Contents

<<7-2-21 —- 7-2-23>>

7-2-22 कृच्छ्रगहनयोः कषः

प्रथमावृत्तिः

TBD.

काशिका

कृच्छ्र गहन इत्येतयोरर्थयोः कषेर् धातोः निष्ठायाम् इडागमो न भवति। कष्टो ऽग्निः। कष्टं व्याकरणम्। ततो ऽपि कष्टतराणि सामानि। कृच्छ्रं दुःखम्, तत्कारणम् अप्यग्न्यादिकं कृच्छ्रम् इत्युच्यते। गहने कष्टानि वनानि। कष्टाः पर्वताः। कृच्छ्रगहनयोः इति किम्? कषितं सुवर्णम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

869 कृच्छ्रगहनयोः। कृच्छ्रशब्दो दुःखे, तत्कारणे च वर्तते। कष्टं दुःखं, तत्कारणं चेति। `स्यात्कष्टं कृच्छ्रमाभील'मित्यमरकोशवाक्यम्। दुःखकारणे उदाहरति– कष्टो मोह इति। गहने उदाहरति– कष्टं शास्त्रमिति। गहनशब्दं विवृणोति– दुरवगाहमिति।

तत्त्वबोधिनी

714 कृच्छ्रगहनयोः। कृच्छ्रं दुःखं, तत्कारणं च लक्षणया गृह्रते। कषतिहिंसार्थः। कष्टो मोह इति। दुःखहेतुरित्यर्थः।

Satishji's सूत्र-सूचिः

TBD.